SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शत्रुब्जय कल्पवृ० ॥४७२॥ ISPSSSSSSESSEST252 पूर्वमादिजिनस्याभूत सुतो बाहुबलिर्नृपः । तस्य सोमयशाः सूनुः सोमवजनहर्पदः ॥१॥ तद्वंशे येऽभवन् भूपाः सोमवंशा स्मृताश्च ते । सोमभूमीपतेः पुत्रः श्रेयांसोऽजनि भूपतिः ॥ २॥ सार्वभूमः सूभूमश्च सुघोषो घोषवर्द्धनः । महान्दी सुनन्दी च सर्वभद्रः शुभङ्करः ॥३॥ एवं क्रमादसङ्ख्येषु मुक्तिं स्वर्ग गतेषु च । चन्द्रकीतिरभृद्भपः सोऽनपत्यो दिवं ययौ ॥४॥ कोऽस्य पट्टे महीपाल: स्थाप्यते इति मन्त्रिषु । कुर्वाणेषु विचारं तु वाणीति गगनेऽभवत् ॥५॥ हरिवर्षाभिधात् क्षेत्राद् युगल्येको मनोहरः । अत्रैव मोक्ष्यते रोषान् वैराच्चैकेन नाकिना ॥६॥ अत्रान्तरे सुरः कश्चित क्षेत्राच्च हरिवर्षतः । नीत्वा युगलिनं तत्र पुरे मुक्त्वा रहो ययौ ॥ ७ ॥ ततो व्योम्नि पुनर्जाता वाणीति तत्र तत्क्षणात् । एष स्वामी भवद्भाग्य-रागतोऽत्रास्ति निश्चितम् ॥ ८॥ ततस्तैः सचिवैः राज्येऽभिषिक्तो युगली स तु । सेव्यते सर्वसामन्त-सेवकैभक्तिपूर्वकम् ॥ ९ ॥ हरिवर्षाभिधक्षेत्रा-तीर्थे श्रीशीतलेशितुः । तत्राभूद् युगली राजा हरिनामा मनोहरः ॥१०॥ उक्तंच-" सीअलजिणस्स तित्थे सुहुमो(सुमुहो) नामेण आसि महिपालो । कोसंबीनयरीए तत्थेव य वीरयकुविंदो॥ हरिऊण तस्स महिलं वणमालं नाम नरवई तत्थ । भुंजइ भोगसमिद्धिं रईए सम अणंगोव्व ॥२॥ अह अन्नया नरिंदो फायदाणं मुणिस्स दाऊण । असणिहओ उववन्नो महिलासहिओ य हरिवासे ॥३॥ app TESZTSZESSESasa ४७२॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy