SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुब्जय कल्पवृ० ॥ २२० ॥ 525525252525252525252525 www.kobatirth.org श्रीपुरे शान्तनोणि-पतेः शीतत्रिया प्रिया । स्वप्नेsय धूसरं वह्नि वीक्ष्याह प्रत्युरग्रतः ॥ ४४ ॥ तस्याऽसावि सुतो नील-नामा यदा शितिद्युतिः । तदा च भूपतेः कुम्भि-सैन्यं क्षयमुपाययौ ॥ ४५ ॥ महानीलाभिधः कालो महाकालायोऽपरः । दुःस्वप्नमूचिता एते यदाऽभूवन् सुताः क्रमात् ॥ ४६ ॥ तदाश्वाङ्गं धनं मन्त्रि -मुख्याश्च निधनं ययुः । ततोऽकस्मात् परबलैर्वेष्टितं नगरं हि तत् ॥ ४७ ॥ प्रक्षीणकोशदण्डः सन् निशायां शान्तनो नृपः । पत्नीपुत्रयुतो नंष्ट्रा ययौ कापि पुरे रहः ॥ ४८ ॥ चत्वारस्तनयाः सप्त व्यसनग्रस्तचेतसः । कुर्वन्ति न मनाग् धर्मं पापं च कुर्वते सदा ॥ ४९ ॥ * यतः " द्यूतं मांसं सुरा वेश्या चौर्य पापर्द्धिसेवनम् । परस्त्रीपु रतिः सप्तव्यसनी दुःखदा हासौ ॥ १ ॥ " द्यूतात् सर्वाणि जायन्ते व्यसनानि पराण्यपि । लोकद्वयाहितकरं तस्माद् द्यूतं त्यजेद्बुधः ॥ ५० ॥ द्यूतेनापयश धर्म-बन्धुवर्गकुलक्षयः । भवेत् तैरश्वनरक-गतिर्दुःखौघदायिनी ॥ ५१ ॥ गोमायुश्च पिशाचास्ते ज्ञेया नरकगामिन: । जिह्वास्वादरसान्मांसं ये यदश्नन्ति दुर्धियः ॥ ५२ ॥ ते गत्वा नरके छेद-भेदकुम्भ्यादिपाकजाम् । वेदनां दुःशकां वाढं सहन्ते बहुकालतः ।। ५३ ।। कुरूपाः क्रूरधिषणाः कुसंसर्गपराश्च ते । राजानं मुमुचुर्नैव कुग्रहा इव वक्रगाः ॥ ५४ ॥ तैः कुपुत्रैः समं भूपो भ्रमन् पुरात् पुरं प्रति ! लभन्ते स्थानकं नैव कुत्रापि विषये मनाग् ॥ ५५ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 25259255257525252557585 ॥ २२० ॥
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy