SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शत्रुञ्जय mmmmmmma कल्पवृ० ॥२२१॥ STISSPSSESSISESTSESSIS विप्रतार्य कुतोऽप्येनं पत्नी पुत्रसमन्विताम् । करिष्याम्यहकं स्वायुःशेषमद्यात्मनो वधात् ॥५६॥ ध्यात्वेति भृगुपाताय महाशैलाभिधं गिरिम् । आरूढः शान्तनोऽपश्यद् जिनायतनमुत्तमम् ॥ ५७ ॥ प्राणप्रयाणके वाञ्छन् शम्बलं सुखहेतवे । कुटुम्बयुग् ययौ चैत्ये सम्प्रतेरहतस्तदा ॥ ५८ ॥ नत्वाऽर्हचरणौ भक्त्या नमस्यन्तं जनं वरम् । ददर्श शान्तनः क्षमापः सर्वकुटुम्बसंयुतः ॥ ५९ ।। तस्येक्षणाद्धरानाथः समुत्पन्नसुवासनः । अनंसीत् जिनपं तत्त्वा-दैक्यं कुर्वन् जिनात्मनोः ॥६॥ * यतः-अल्पापि मनःशुद्धथा जिनभक्तिर्विनिर्मिता । इहलोकेऽपि यत् सातदायिनी परलोकवत् ॥ ६१ ॥॥ पूर्वायातो नरः प्राह शेपोऽहं जिनसेवकः । तुष्टोऽस्मि जिनभक्त्या ते वरं ब्रहि यथेप्सितम् ॥ ६२॥ ततो भूपो जगौ हृष्टोऽस्म्यहं शेष ! तवेक्षणात् । सम्पदो निखिला हस्ते मामके समुपागताः ॥६३ ॥ मम पुत्रेषु जातेषु गजादिसर्वसम्पदाम् । आदौ नाशः कथं जातः प्रसद्य त्वं निवेदय ॥ ६४ ॥ धरणेन्द्रो जगौ पल्यां भिल्लोऽभूत् कमलाभिधः । क्रूराशयोऽशुभध्याना-धारो ध्वस्ताङ्गिसञ्चयः ॥६५॥ हिंसन् जीवान् बनेऽन्येद्युः कायोत्सर्गस्थितं मुनिम् । दृष्ट्वाऽप्राक्षीत् मृगो गच्छन् दृष्टोऽत्र भवता नवा ॥६६॥ कृपात्मा स मुनिः प्राह या पश्यति न वक्ति सा । यच्च वक्ति न पश्येत्तत् कथं वच्म्यहकं वद ? ॥६७॥ ततो रुष्टेन भिल्लेन मार्गणेनिहतो मुनिः । स्मरन्नमस्कृति सद्यः परलोकमसाधयत् ॥ ६८ ॥ SETISSISESESTISSS:S250 ॥२२१॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy