SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुजय कल्पवृ० ॥ २०१ ॥ 52525T www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सञ्चरिष्णुरितः साधुर्दिक्षु सर्वासु सन्ततम् । तत्रोद्याने समस्यायाः पदद्वन्द्वमथाशृणोत् ॥ २११ ॥ पामरोक्तां समस्यां तां श्रुत्वा त्रिविक्रमो जगौ । ' येनामी निहताः सप्त सोsहं भावी कथं हहा ' ? ॥ २१२ ॥ समस्यां पूरितां वाचंयमेन पामरस्तदा । समेत्य नृपतेरग्रे पपाठ मुदिताशयः ॥ २१३ ॥ राजा जगौ त्वयाsपूरि समस्या वाऽन्येन केनचित् । पामरोऽवक पुरोद्याने स्थितेन साधुना ननु ॥ २१४ ॥ ततोऽभ्येत्य नृपस्तत्र प्रणम्य तं मुनिं जगौ । समस्या पूरितेदानीं कथं साधो ! त्वया वद १ ।। २१५ ।। यतिर्जगौ मया ज्ञानाज् - ज्ञातमेतन्नरेश्वर ! । दध्यौ भूपो ह्ययं साधुः कुत्रापि वीक्षितो मया ॥ २१६ ॥ एवं संस्मरतो भूमी - पतेर्जातिस्मृतिस्तदा । अजायत ततो ज्ञातो यतिर्हन्ता निजात्मनः ॥ २१७ ॥ यतिः प्राह मया पूर्व-भवेषु सप्तसु ध्रुवम् । कोपाविष्टेन निहत-स्तपोऽपि गमितं स मे ॥ २२८ ॥ राजाऽऽचष्ट मयाऽपि त्वं भवेषु तेषु तेष्वपि । खेदितोऽभूस्तथा पापं तीव्रं मेऽजनि संयत ! ॥ २१९ ॥ उत्थाय नृपतिः साधोः प्रणम्य चरणद्वयम् । क्षमयामास तं साधुं संयतोऽपि क्षमापतिम् ॥ २२० ॥ यति भूपौ मिथो यावत् क्षमयित्वोचतुर्मुदा । तावद्दुन्दुभिनिद्दादोऽजनिष्ट मरुतां पथि ॥ २२१ ॥ किमेतदिति जल्पन्तौ यतिक्ष्मापौ सुरोतितः । अज्ञासिष्टां मुनेर्ज्ञानोत्पत्ति सुन्दरकानने ॥ २२२ ॥ साधुक्ष्मापौ ततस्तत्र वने गत्वा प्रमोदतः । नत्वा केवलिनं जैनं धर्म-मित्यशृणोत्तदा ॥ २२३ ॥ For Private and Personal Use Only 55255255255255255725525 ॥ २०१ ॥
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy