SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुञ्जय कल्पवृ० ॥ २०२ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न्यो दुर्लभं पुरुषं दुर्लको स्वातिजं पयः । दुर्लभं मानुषं जन्म दुर्लभं देवदर्शनम् ॥ २२४ ॥ अर्थ्यायपि रत्नानि लभ्यन्ते विभवैः सुखम् । दुर्लभो रत्नकोटथाऽपि क्षणोऽपि मनुजायुषः ॥ २२५ ॥ ताभ्यामुक्तं कृतं पापं तीव्रं दुःखशतप्रदम् । तस्मान्मे छुट्टनं पापात् कथं ज्ञानिन् । भविष्यति १ ॥ २२६ ॥ ज्ञानी जगौ बिना शत्रुञ्जयं तीर्थं मनोहरम् । भविष्यति न पापेभ्यो विमुक्तिर्भवतो द्रुतम् ॥ २२७ ॥ इमं यति पुरस्कृत्य भूप । त्वं सङ्घसंयुतम् । सिद्धक्षेत्रादितीर्थेषु कुरु यात्रां समाहितः ॥ २२८ ॥ तत्र तीर्थे यतेस्ते च सर्वेषां कर्म्मणां क्षयात् । महोदयसुखं सद्यो भविष्यति न संशयः ॥ २२९ ॥ * यतः- “ टंकणेन यथा हेम जलेन लवणं यथा । तथा शत्रुञ्जयस्मृत्या याति कर्म्म पुरा कृतम् ॥ २३० ॥ श्रुत्वेति भूपतिर्वाचं- यमेन तेन संयुतः । शत्रुञ्जये ययौ देवान्नन्तुं कुर्वन् महोत्सवम् ।। २३१ ॥ तत्र विस्तरतः पूजां कुर्वतो मेदिनीपतेः । उत्पन्नं केवलज्ञानं मुक्तिरप्यभवत् क्रमात् ॥ २३२ ॥ * त्रिविक्रमयतीशस्य कुर्वतो ध्यानमादरात् । सर्वकर्मक्षयात् सद्यो मुक्तिसातमजायत ।। २३३ ॥ तदा वाचंयमास्तत्र बहवः सिद्धपर्वते । कर्म्मणां क्षयतो मुक्तिं प्रापुः स्वर्गं गता पुनः ॥ २३४ ॥ श्रुत्वेति भरतः शत्रुञ्जये गत्वा जिनेश्वरान् । नत्वा च पूजयित्वा च सफलं स्वजनुर्व्यघात् ॥ २३५ ॥ For Private and Personal Use Only Se25255225255 25 25 25 25 25 s ॥ २०२ ॥
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy