SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir PISTS2SET शत्रुजय कल्पवृ० ॥१४१॥ दत्ते तृणजलादौ च वत्सो मन्दोऽभवत्तदा । ततः सर्वप्रकारेण चिकित्साः कारिताश्च तैः ॥१९॥ विश्राणिते नमस्कारे मृत्वा वत्सः सुरालये । गतोऽवधिविदा जज्ञौ श्रेष्ठिनं स्वोपकारिणम् ॥२०॥ अभ्येत्व स्वर्गतो वत्स-देवः श्रेष्ठिमतल्लिकाम् । प्रणम्याऽवग् ममासि त्वं गुरुर्नमस्कृतिप्रदः ॥२१॥ अहं वत्सो गृहे ताव-कीनेऽभूवं मृतः पुनः । तत्र त्वया नमस्कारा दत्ता मे म्रियतः सतः ॥२२॥ त्वत्प्रदत्तनमस्कार-प्रभावात्ताविषे सुरः । अहं वत्सो मृतस्ताव-कीने गेहे तदा ध्रुवम् ॥ २३ ॥ कोटिमूल्यानि रत्नानि दश दत्त्वा दृढाग्रहात् । श्रेष्ठिने तत्स्नुपाणां तु हारं पृथक् पृथग् ददौ ॥२४ ततः श्रेष्ठी विशेषेण धर्म जीवदयामयम् । आराध्य ताविषि तुर्ये ययौ वधूत्रयं पुनः ॥ २५ ॥ वत्सदेवोऽपि ताविषाचू च्युत्वा सुरपुरे वरे । धर्मश्रेष्ठिसुतो राम-नामाऽजनि मनोहरः ॥२६॥ रामोऽन्यदा गुरूपान्ते श्रुत्वा धर्म विरागवान् । दीक्षां लात्वा तपस्तीनं चक्रे कल्याणशर्मदम् ॥ २७ ॥ * यतः-पोरिसि चउत्थछट्टे काउं कम्म खवंति जं मुणिणो । तं नो नारयजीवा वाससयसहस्सलक्खेहि ॥ २८ ॥5 अत्र सिद्धगिरौ राम-यतिरेतोऽन्यदा क्रमात् । तपःषष्ठादि बहुश-श्वकाराऽनघमानः ॥ २९ ॥ तीर्थस्यास्य प्रभावेण प्राप्य ज्ञानमनुत्तरम् । प्रबोध्य भविनो भूरीन् रामोऽत्र मुक्तिमीयिवान् ॥३०॥ श्रेष्ठि-स्नुषासुराः सर्वे च्युताः स्वर्गाद् धरापुरे। प्रजापते सुता जाताः सोमो भीमो धनाभिधः ॥३१॥ 25ESZSEGESSZ5525TSS25 ॥१४१॥ ISPSSESS For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy