SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir श्रेष्ठिजीवसुरः सोऽपि च्युत्वा स्पतितोऽन्यदा । प्रजापतेरभूत् सूनु-रमराहो वराकृतिः ॥३२॥ चत्वारोऽपि मिथः प्रीति-भाजः सहोदराः क्रमात् । धर्मघोषगुरूपान्ते जैन धर्म प्रेपेदिरे ॥३३॥ प्रपाल्य धर्ममनिशं चत्वारोऽप्यच्युतं ययुः । ततश्च्युताः कलापुर्या जाताः श्रीदसुताः पुनः ॥ ३४॥ अत्र शत्रञ्जये यात्रा-कृते समागताच ते । लात्वा दीक्षां तपस्तीत्रं चक्रिरे शिवसातदम् ॥ ३५॥ क्रमात् कर्मक्षयाज्ज्ञान-मासाद्यानुत्तरं खलु । कल्याणनगरी जग्मु-श्चत्वारोऽपि सहोदराः ॥ ३६॥ इत्याद्यनन्तनाथस्य वाणी योजनगामिनीम् । आकर्ण्य भविनोऽनेके महोदयपुरीं ययुः ॥३७॥ शत्रुजय कल्पवृ० ॥१४२॥ 2SSZESEASOSESS2135 BL2RSG252SPSSELDSTES ॥ श्री धर्मजिनस्य शत्रुञ्जयागमनस्वरूपम् । पुरे रत्नपुरे भानु-भूपस्य सुव्रता प्रिया । माघशुक्लतृतीयस्यां सुषुवे नन्दनं वरम् ॥१॥ शक्रेण विहिते जन्मोत्सवे जन्मोत्सवं पिता । कृत्वा धर्मेति नामाऽदात् सुनोः सञ्जनसाक्षिकम् ॥२॥ राज्यं प्राप्य पितुः पाश्र्वात् पालयित्वा प्रजाश्चिरम् । लात्वा दीक्षां क्रमात् प्राप केवलज्ञानमञ्जसा ॥३॥ धर्मोजिनोऽन्यदा शत्रु-जये तीर्थे समागतः । ददौ धर्मोपदेशं तु भव्याङ्गिभ्यः शिवप्रदम् ॥ ४॥ १४२॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy