SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुञ्जय कल्पवृ० ॥ ९६ ॥ 12525252 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * चत्वारः प्रहरा यान्ति देहिनां गृहचेष्टितैः । तेषां पादे तदर्द्धेवा कर्तव्यो धर्मसङ्ग्रहः ॥ ९ ॥ * उत्थायोत्थाय बोद्धव्यं किमद्य सुकृतं कृतम् | आयुषः खण्डमादाय रविरस्तमुपागतः ॥ १० ॥ * अनित्यानि शरीराणि विभवो नैव शाश्वतः । नित्यं सन्निहितो मृत्युः कर्तव्यो धर्मसङ्ग्रहः ॥ ११ ॥ झ अन्यदा बोधयन् भव्य - जीवान् नृपभसेनकः । ययौ शत्रुञ्जये शैले कल्याणकमलाप्रदे ॥ १२ ॥ देवैर्वप्रत्रये रत्न-स्वर्णरूप्यमये कृते । उपविश्य ददौ धर्म देशनामिति शर्मदाम् ॥ १३ ॥ * अन्यायन्यायभेदेन चतुर्भङ्गी धने ततः । सतां सर्वोत्तमी भङ्गी न्यायार्जितस्य सद्भ्ययात् ॥ १४ ॥ * पादमायान्निधिं कुर्यात् पादं वित्ताय घट्टयेत् । धर्मोपभोगयोः पादं पादं भर्तव्यपोषणे ।। १५ ।। 5 * संसाराम्बुनिधौ सत्त्वाः कर्मोर्मिपरिघट्टिताः । संयुज्यन्ते वियुज्यन्ते तत्र कः कस्य बान्धवः ? ॥ १६ ॥ श्रुति तत्र सर्वज्ञधर्मं धर्मशरीरिणः । सम्यक्त्वसहितं श्राद्ध धर्म जयहुरादरात् ॥ १७ ॥ आयुःप्रान्ते जिनः सोऽपि भूरिसाधुसमन्वितः । शत्रुञ्जये ययौ मुक्ति नगरी क्षीणपातकः ॥ १८ ॥ ततश्चन्द्रधनः सार्वः क्षीणाष्टकर्म्मसञ्चयः । अस्मिन् सिद्धगिरी भूरि-मुमुक्षुयुक्र शिवं ययौ ॥ १९ ॥ ततोऽनन्तजिनः कुर्वन् विहारमायुषः क्षये । अत्रैव पर्वते मुक्ति नगरी समुपेयिवान् ॥ २० ॥ एवं चासङ्ख्यसर्वज्ञा युक्ता असङ्ख्यसाधुभिः । शत्रुञ्जये समाजग्मुर्ययुर्मुक्ति पुरीं क्रमात् ॥ २१ ॥ For Private and Personal Use Only 5a5a5a5a5255252525252 ।। ९६ ।
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy