SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir 1252SSISES - शत्रुञ्जय कल्पवृ० m mmmmmmmmmmmmmmmm ॥८६॥ ॥ श्री विवरविषये भीमभूपकथा ।। विवराणि गुहारूपाणि सन्ति बहूनि, येषु विवरेपु साधवस्तपस्तपन्तो मुक्तिं गच्छन्ति जग्मुर्यास्यन्ति, यक्षादिदेवा रक्षां कुर्वते, चन्द्राह्वविवरस्य स्वरूपं प्रोच्यते--- वाराणस्यां प्रजापाल-भूपस्य प्रेयसी रमा । अजनिष्टाऽनघाङ्गश्री-जितप्रीतिसुराङ्गना ॥१॥ अनपत्या सुतप्राप्त्यै ज्योतिष्कादिककोविदान् । पृच्छन्ती ददते तेभ्यो धनधान्यादि भूरिशः ॥२॥ * यतः-रोगिणां सुहृदो वैद्याः प्रभृणां चाटुकारिणः । मुनयो दुःखदग्धानां गणकाः क्षीणसम्पदः ॥३॥ तथापि न सुतो जातस्तस्या दुष्कर्मयोगतः । ततः सन्तोषमाधाय तस्थौ सा नृपगेहिनी ॥४॥ * यतः- सर्पाः पिबन्ति पवनं न च दुर्बलास्ते, शुष्कैस्तृणैर्वनगजा बलिनो भवन्ति । के कन्दैः फलैमुनिवरा गमयन्ति कालं, सन्तोष एव पुरुषस्य परं निधानम् ॥ ५॥ * निरीहस्य निधानानि प्रकाशयति काश्यपी । अङ्गोपाङ्गानि डिम्भानां न गोपयति कामिनी ॥६॥ शुभकर्मोदयेऽन्येद्यु-रागत्यैकः सुरो जगौ । एकस्मिन् हायने याते तव पुत्रो भविष्यति ॥७॥ ततो राज्ञाऽन्यदा पृष्ट एको ज्योतिषिकस्त्विति । कस्मिन् क्षणे सुतो जातो भविष्यति लसत्तमः ॥ ८॥ ज्योतिष्किको जगावुच्च-ग्रहेषु यो भवेत् सुतः । स एव जायते चक्री वासुदेवोऽथवा बलः ॥९॥ 12SASSPS2S25252 ISSPSSSESITES ISRISSAGE % 3Dom ॥८६॥ mmmmmmmmmmmmmmm For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy