SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुज्जय कल्पवृ० ॥ ८५ ॥ www.kobatirth.org सर्पाः पिबन्ति पवनं न च दुर्बलास्ते, शुष्कैस्तृणैर्वनगजा बलिनो भवन्ति । कन्दैः फलैर्मुनिवरा गमयन्ति कालं, सन्तोष एव पुरुषस्य परं निधानम् ।। २९ ।। ततो भीमो जगादेति परद्रव्यं मया मनाग् । अदत्तं न ग्रहीतव्यं सदा सद्गतिहेतवे ॥ ३० ॥ एकदा सोदरौ द्वौ तु गतौ श्रीगुरुसन्निधौ । अश्रोष्टामिति माहात्म्यं शत्रुञ्जयावनीभृतः ॥ ३१ ॥ ' रयणायरे 'त्यादि । Acharya Shri Kailassagarsuri Gyanmandir भीमो भणद् गतः सिद्ध-शैलेऽपश्यत् पदे पदे । अपश्यन्न मणीस्तेन त्वयेत्थमुच्यतां किमु ? ॥ ३२ ॥ गुरुराह मणीखानिर्देवताधिष्ठिताऽस्ति हि । अतो भाग्यं विना नै कोपि पश्यति मानवः ।। ३३ ।। ततो भीमः समेत्याद्रौ तस्मिन्नभ्यर्च्य तीर्थपम् । जगौ यदा मणीखानिं दृक्ष्याम्यरि तदा ह्यहम् ॥ ३४ ॥ गतेषु दशघस्रेषु सुरोऽभ्येत्येवमूचिवान् । उत्तिष्ठ भीम ! ते रत्न - खनिः प्रादुर्भविष्यति ॥ ३५ ॥ यावदुत्थाय भीमोऽग्रे वीक्ष्यते तावदेव तु । रत्नखानिरभूद् दृष्टिगोचरेऽथ सुरो जगौ ॥ ३६ ॥ तुष्टोऽस्म्यहं मणीन् पश्च गृहाणाऽनुगृहाण माम् । साहसी त्वमसीदानीं चालितोऽप्यचलन्नहि ॥ ३७ ॥ ततः पञ्च मणीन् प्राप्य तस्या रत्नखनेर्वणिग् । प्रासादं रत्नखन्याह-मकारयदथार्हतः ।। ३८ ।। सोमभीमौ क्रमाल्लात्वा चारित्रं गुरुसन्निधौ । गतौ शत्रुञ्जये कर्म-क्षयान्मुक्तिं समीयतुः ॥ ३९ ॥ For Private and Personal Use Only 225 25 2552525252S ॥ ८५ ॥
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy