SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शत्रुजय कल्पवृ० 26242525252SESESINSPIRE व्यवसायमतः कुर्म आवां पृथक सहोदरौ । परकीयं धनं प्राणा-त्ययेपि लामि न क्वचित् ॥१७॥ ततः पृथक पृथक स्वीयं क्रयाणवी सहोदरौ । लात्वाऽऽगत्य पुरे स्व-स्वसदने निन्यतुश्च तत् ॥१८॥ तस्यामेव निशीथिन्यां भीमस्यैव निकेतने । प्रविश्य धाटिकाऽहापी सर्व विभवसश्चयम् ॥१९॥ गतं सर्व धनं दृष्ट्वा कुट्टयन्नुदरं दृढम् । भीमोऽभणन्ममाऽऽवासो धाटयाऽद्य मुषितो निशि ॥ २० ॥ सोमोऽभ्येत्य जगौ भ्राता ! रुदनेन तवाऽस्ति किम् । अदत्तं द्रविणं लातं त्वया तन्न वरं कृतम् ॥ २१ ॥ * अदत्तो विभवो लातोऽग्रेतनविभवं समम् । नाशयत्येव भूपाग्नि-तस्करादिकपार्श्वतः ॥ २२ ॥ ॥ * अन्यायोपार्जितं द्रव्यं दश वर्षाणि तिष्ठति । प्राप्ने षोडशमे वर्षे समूलं च विनश्यति ॥ २३ ॥॥ - वरं वह्निशिखा पीता सर्पस्य डङ्कितं वरम् । वरं हलाहलं पीतं परस्वहरणं न तु ॥ २४ ॥ ॥ * चौरश्चौरापको मन्त्री भेदज्ञः काणकक्रयी । अन्नदः स्थानदश्चैते चौरः सप्तविधः स्मृतः ॥ २५॥" * हरिऊणं परदवं पूअं जो करइ जिणवरिंदाणं । दहिऊण चंदणतरुं कुणइ अंगारवाणिज्जं ॥२६॥" अतः परं त्वयाऽन्यस्याऽदत्तं द्रव्यं मनागपि । न ग्रहीतव्यं ततस्ते स्या-दिहामुत्र सुखं खलु ।। २७॥ सन्तोष कुर्वतां पुंसां सुखं चात्र परत्र च । जायते सततं दुःख-मसन्तोषान्न संशयः ॥ २८ ।। 32TS25252SPSSTSESESTS2 For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy