SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir शत्रुजय कल्पवृ० ॥८३ 252SSESELPSRS2525 येनैवं विनियोजितानि शतशो विश्वत्रयीमण्डनं, धन्यः कोपि स विष्टपैकतिलकं काले कलौ श्रावकः ॥४॥ * दौर्भाग्यं प्रेष्यतां दास्य-मङ्गच्छेदं दरिद्रताम् । अदत्तात्तफलं ज्ञात्वा स्थूलस्तेयं विवर्जयेत् ॥५॥॥ देशनान्ते ललौ सोमोऽभिग्रहं चातिसादरम् । अतः परमदत्तं नो मया ग्राहथं मनागपि ॥६॥ भीमो जग्राह नादत्ता-भिग्रहं गुरुणोदितः । यतः सर्वे न जायन्ते सदृशाः मनुजाः क्वचित् ॥ ७ ॥ * एकोदरसमुत्पन्ना एकनक्षत्रजातकाः । न भवन्ति समाः शीलैः ( समशीला ) यथा बदरीकण्टकाः ॥ ८॥॥ द्रव्यार्जनार्थमन्येद्युभवेव सोदरौ मुदा । गच्छन्तौ विषयेऽन्यत्र गतौ वीरपुरान्तिके ॥९॥ ततः सोमो व्रजन्नग्रे मणीखचितकुण्डलम् । कोटिमूल्यं निरीक्ष्याला-न्न निर्लोभतया तदा ॥१०॥ भीमश्छन्नं गृहीत्वा तत् सोदरस्यामिलत् पथि । सोमोऽवक किं त्वया दृष्टं भीमः प्राह मया नहि ॥ ११ ॥ ततस्तावपि पद्मायां पुर्यगातां सहोदरौ । कुर्वाणी व्यवसायं तौ लक्ष्मीमर्जयतः क्रमात् ॥ १२॥ विक्रीय कुण्डलं छन्नं भीमो भूरिक्रयाणकम् । यदाऽगृहात्तदा पृष्टं सोमेनेति कृतादरम् ॥ १३ ॥ भूरिक्रयाणकं ताव-कीनोपान्ते किमीक्ष्यते ? । भीमोऽभाणीन्न पृष्टव्यं त्वया भ्रातरिहाधुना ॥ १४ ॥ पृष्टः बह्वाग्रहाद् भ्राता भीमः कुण्डलसङ्ग्रहम् । यदाऽगदत्तदा सोमः प्राहेति सोदरं प्रति ॥१५॥ कुण्डलेन क्रयाणं यद् गृहीतं भवताऽधुना । तदस्तु तव नो लामि विभागं तस्य सोदरः ॥१६॥ E25525252SESSZISZSSISTE ॥८३॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy