SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. १०] इतरव्यपदेशाधिकरणम्. अन्योन्यव्याहतार्थस्थपुटितकुहनायुक्तिदोषापनुत्यै भाति वैय्यन्तसूर्यः प्रतिमततिमिरस्तोमकुक्षिभरिर्नः ॥ ( अथ भोक्त्रापत्त्यधिकरणम् ॥ ५ ॥ ) एको यस्यास्ति देहस्स भवति विविधानन्तदुःखैकभोक्ता विश्वं देहः प्रभोश्चेत् स कथमतिपतेद्विश्वदुःखानुभूतिम् । इत्थं जीवेश सीमामपलपितुमनाः कोशभाजा श्रुतीनां सम्राड्भृत्यादिनीत्या शममिह लभतां साम्यवैषम्यदर्शी ॥ ११ (अथारम्भणाधिकरणम् ॥ ६ ॥ ) कार्ये धर्मैर्विरुद्धैः कट इव शकटात् कारणद्रव्यतोऽन्यद्वयापारः कारकाणां विफल इतरथेत्यर्द्धवैनाशिकोक्तौ । द्रव्यैक्येऽप्यस्तु सर्वे तदभिमतदशाभेदतोऽसच्छ्रुतिश्चेत्यसक्षाल्लाघवाच्च श्रुतिकथितजगद्ब्रह्मतादात्म्यमुक्तम् ॥ १२ मायोपाधिस्वशक्तिव्यतिकरितपरब्रह्ममूलः प्रपञ्चो येषान्तेऽप्यद्वितीयश्रुतिमवितथयन्त्यव तत्तद्विशिष्टे । अप्राधान्यात्तथा नः प्रकृतिपुरुषयोरन्तरात्मप्रधाने वाक्येऽस्मिन् स्थूलसूक्ष्मान्वय इति जगतोऽनन्यभावोपपत्तिः ।। विश्वारम्भे विवर्त शकलपरिणतिं शक्तिशेषस्य सूर्ति व्यक्त्युल्लासौ विसृष्टिं विकृतिमनियतां तत्वपङ्कौ च सृष्टिम् । तत्तद्वाक्यैकदेशे स्वरस इति मुधा कल्पयन्तस्तु मुग्धास्सर्वश्रुत्यैकरस्यप्रणयिभिरधरीचक्रिरे तत्त्वविद्भिः ।। (अथेतरव्यपदेशाधिकरणम् ॥ ७ ॥ ) उक्तेऽनन्यत्वपक्षे चिदपि परिणतिर्ब्रह्मणस्स्यात्ततस्तजीवैक्यं तत्त्वमस्याद्यवगतमहतन्दुः खसिन्धुश्च जीवः । अभ्रान्तस्तु स्वदुःखं न सृजति न च तत्क्रीडयाप्यस्य मैवं तात्स्थ्येनानन्यतोक्तेस्तदपि चिदचितोस्तच्छरीरत्वसिद्धेः ॥ १५ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ३५ १० १४
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy