________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भीशारीरकमीमांसामाग्ये
म. ३. राहोर्मुखात्ममुच्या धृत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवानि" इति आथर्वणिकाच १“तदा विद्वान् पुण्यपापे विध्य निरञ्जनः परमं साम्यमुपैति" इति शाट्यायनिनस्तु २"तस्य पुत्रा दायमुपयन्ति मुहदस्साधुकत्यां द्विषन्तः पापकृत्याम्" इत्यादिः कौषीतकिनस्तु ३"तत्सुकृतदुष्कृते धनुते तस्य प्रिया ज्ञातयस्सुकृतमुपयन्ति अप्रिया दुष्कृतम्" इति । एवं कचित्पुण्यपापयो निः, कचित्प्रियाप्रियेषु तत्प्राप्तिः, कचिदुभयं च श्रुतम् । तदुभयमेकैकविद्यायां श्रुतमपि सर्वविद्याङ्मास्थेयम् , सब्रह्मविद्यानिष्ठस्यापि ब्रह्म प्राप्नुवतः पुण्यपापप्रहाणस्यावश्यंभावित्वात प्रहीणविषयत्वाच्चोपायनस्य । तचिन्तनं च विधीयमानं सर्वविद्या भवितुमर्हति । तत्रेदं विचार्यते-हानिचिन्तनमुपायनचिन्चतनमुभयचिन्तनं च विकल्प्येरन् , उपसंहियेरन्वा । किं युक्तम् ? विकल्प्येरनिति । कृतः पृथगाम्नानसामर्थ्यात्। समुच्चये हि सर्वतोभयानुसन्धानं स्यात् , तच कौषीतकीवाक्येनैव सिद्धमित्यन्यनाम्नानमनर्थकमेव स्यात् । अतोऽनेकलाम्नानस्य विकल्प एव प्रयोजनम्। नचाध्येतभेदेन परिहर्तुं शक्य. मनेकनाम्नानम् ; अविशेषपुनश्श्रवणं ह्यध्येतभेदपरिहार्यम् । अत्र तु हानिरेव द्वयोः शाखयोः, उपायनमेव चैकस्याम्। न च विद्याभेदेन व्यवस्थापयितुं शक्यम् , सर्वशेषभूतमिदमनुसन्धानमित्युक्तत्वात् ॥
-सिद्धान्तः)---- अत्रेदमुच्यते-हानी तूपायनशब्दशेषत्वात्-इतिातुशब्दः पक्षं व्यावर्तयति हानाविति प्रदर्शनार्थम् । केवलायां हानौ केवले चोपायने श्रृयमाणे तयोरितरेतरसमुच्चयोऽवश्यंभावी ; कुतः ? उपायनशब्दशेषत्वात्उपायनशब्दस्य हानिवाक्यशेषत्वात् । उपायनवाक्यस्य हि हानिवाक्यवेषत्वमेवोचितम् , विदुषा त्यक्तयोः पुण्यपापयोः प्रवेशस्थानवाचित्वा
१. सु. ३-१-३
-२ ॥-३, कौषी. १-अ. ४॥
For Private And Personal Use Only