________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ३.] हान्बधिकरणम् .
२९५ दुपायनवाक्यस्य । प्रदेशान्तराम्नातस्य वाक्यस्य प्रदेशान्तरानातवाक्यशेषत्वे दृष्टान्ता उपन्यस्यन्ते-कुशाच्छन्दस्स्तुत्युपगानवदिति । कालापिनः १"कुशा वानस्पत्याः" इत्यामनन्ति ; शाट्यायनिनां तु २ "औ. दुम्बर्यः कुशाः" इति वाक्यं सामान्येन वानस्पत्यत्वेनावगताः कुशाः
औदुम्बर्य इति विशिंपत्तद्वाक्यशेषतामापद्यते; तथा ३ "देवासुराणां छन्दोभिः" इत्यादिना अविशेषेण देवासुराणां छन्दसां प्रसङ्गे ४"देवच्छन्दांसि पूर्वम्" इति वचनं क्रमविशेष प्रतिपादयत्तद्वाक्यशेषतां गच्छति तथा ५"हिरण्येन षोडशिनः स्तोत्रमुपाकरोति" इत्यविशेषेण प्राप्ते ६"समयाविषिते सूर्ये षोडशिनः स्तोत्रमुपाकरोति" इति विशेषविषयं वाक्यं तद्वाक्यशेषतां भजते ; तथा ७"ऋत्विज उपगायन्ति" इत्यविशेषप्राप्तस्य "नाध्वर्युरुपगायेत्” इति वाक्यमन+युविषयतामवगमयत्तद्वाक्यशेषत्वमृच्छति; एवं सामान्येनावगतमर्थ विशेष व्यवस्थापयितुं क्षमस्य वाक्यस्य तच्छेषत्वमनभ्युपगच्छद्भिस्तयोरर्थयोर्विकल्पस्समाश्रयितव्यः; स च सम्भवन्त्यां गतौ न युज्यते तदुक्तं पूर्वस्मिन् काण्टे ९" अपितु वाक्यशेषस्स्यादन्याय्यत्वाद्विकल्पस्य विधीनामेकदेशः स्यात्" इति । तदेवं केवलहानोपायनवाक्ययोरेकवाक्यत्वात्केवलस्य हानस्य, केवलस्यचोपायनस्याभावाद्विकल्पो नोपपद्यते । कौषीतकिनामुभयानानमविशेषपुनश्श्रवणत्वेन प्रतिपचभेदादविरुदम् ॥ २६ ॥
इति श्रीशारीरकमीमांसाभाष्ये हान्यधिकरणम् ॥ ११ ॥ वेदान्तसारे-हानौ तूपायनशब्दशेषत्वात्कुशाच्छन्दस्स्तुत्युपगाबवत्तदुक्तम् ।। विदुषो ब्रह्म प्राप्नुवतः पुण्यपापयोर्विमोचनमेकस्यां शाखायां विदुषस्तश्चिन्तनाथमधीतम् ; विमुक्तयोः प्रवेशस्थानमेकस्यां शाखायां पुण्यप्रवेशस्थानं सुहृदः ; दुष्कृतस्य शत्रव इति; एकस्यां शाखायां विमोचनं प्रवेशस्थानं चेत्युभयमानातम् , सर्व तश्चिन्तनार्थम्; हानावितिप्रदर्शनार्थम्; हाना
१॥-२ ॥ ३॥-४॥-५ ॥-६. ६-कां. ६-प्र. ११-अनु ।।-७॥ -८. ६ कां. ३-प्र.१-अनु. ६-पं ॥--९. पूर्वमीमांसा सू ।।
For Private And Personal Use Only