SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीशारीरकमीमांसाभाष्ये [म. २. (सिद्धान्तः)---- एवं प्राप्तेऽभिधीयते __अस्ति तु ।२।३।२॥ अस्तित्वाकाशस्योत्पत्तिः अतीन्द्रियार्थविषया हि श्रुतिः प्रमाणान्तराप्रतीतामपि वियदुत्पत्तिं प्रतिपादयितुं समर्थैव । न च श्रुतिप्रतिपनेऽर्थे तद्विरोधिनिरवयवत्वादिहेतुकमनुत्पत्त्यनुमानमुदेतुमलम् आत्मनोऽनुत्पत्तिर्न निरवयवत्वप्रयुक्तेति वक्ष्यते ॥२॥ पुनश्चोदयतिगौण्यसम्भवाच्छब्दाच्च । २।३।३॥ १" तस्माद्वा एतस्मादात्मन आकाशः संभूतः” इत्यादिवियदुत्प. त्तिश्रुतिगैणीति कल्पयितुं युक्तम् , २" तत्तेजोऽसृजत" इति सिमक्षोः ब्रह्मणः प्रथमं तेज उत्पद्यत इति सेजउत्पत्तिप्राथम्येन वियदुत्पत्तिपतिपादनासंभवात् , ३" वायुश्चान्तरिक्षं चैतदमृतम्" इति वियतोऽमृतत्वशन्दाच ॥३॥ कथमेकस्य संभूतशब्दस्य आकाशापेक्षया गौणत्वम् , अग्न्यायपेक्षया मुख्यत्वमिति चेत्-तत्राह स्याच्चैकस्य ब्रह्मशब्दवत् । २।३।४॥ एकस्यैव १"तस्माद्वा एतस्मादात्मन आकाशस्संभूतः"इत्याकाशे मुख्यत्वासंभवात् गौणतया प्रयुक्तस्य सम्भूतशब्दस्य "वायोरमिः" इत्यादिष्वनुषक्तस्य मुख्यत्वं स्यादेवः ब्रह्मशब्दवत्-यथा ब्रह्मशब्दः, ४"तमादेतद्ब्रह्म नाम रूपमन्नं च जायते" इत्यत्र प्रधाने गौणतया प्रयुक्तस्त १. ते. मान. १-अनु॥-२, छा. ६-२-३॥-३. उ. ४-३-३०-४.मु.१-१-९॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy