SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. ३.] वियदधिकरणम्. सिमेव प्रकरणे"तपसा चीयते ब्रह्म ततोऽन्नमभिजायते" इति ब्रह्मणि मुख्यतया प्रयुज्यते; तद्वत् । अनुषले च श्रवणात्ताविवाभिधानावृत्तिविद्यत एवेत्यर्थः ॥४॥ परिहरतिप्रतिज्ञाहानिरव्यतिरेकात् । २।३।५॥ छान्दोग्यश्रुत्यनुसारेणान्यासां वियदुत्पत्तिवादिनीनां श्रुतीनां गौणत्वं कल्पयितुं न युज्यते, यतः छान्दोग्यश्रुत्यैव वियदुत्पत्तिरङ्गीकृता; २"येनाश्रुतं श्रुतम्" इत्यादिना ब्रह्मविज्ञानेन सर्वविज्ञानप्रतिज्ञानात् । तस्या हि प्रतिज्ञायाः अहानिराकाशस्यापि ब्रह्मकार्यत्वेन तदव्यतिरेकादेव भवति ॥ ५॥ शब्देभ्यः ।२।३।६॥ इतश्च वियदुत्पत्तिः छान्दोग्ये प्रतीयते, ३"सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्" इति प्राक्सृष्टेरेकत्वावधारणशब्दात्ः ४"ऐतदात्म्यमिदं सर्वम्" इत्येवमादिशब्देभ्यश्च कार्यत्वेन ब्रह्मणोऽव्यतिरेकप्रतीतेः। नच ५"तत्तेजोऽसृजत " इति तेजस उत्पत्तिश्रुतिर्वियदुत्पत्तिं वारयति । वियदुत्पत्त्यवचनमात्रेण तेजसः प्रतीयमानं प्राथम्यं श्रुत्यन्तरप्रतिपनां वियदुत्पत्ति न निवारयितुमलम् ॥ ६ ॥ यावहिकारन्तु विभागो लोकववत् । २।३।७॥ तुशब्दश्चार्थे ; ४"ऐतदात्म्यमिदं सर्वम्" इत्यादिभिराकाशस्य विकारत्ववचनेन तस्याकाशस्य ब्रह्मणो विभागः-उत्पत्तिरप्युक्तैव । लोकवत्-यथा लोके एते सर्वे देवदत्तपुत्रा इत्यभिधाय तेषु केषांचित्तत उत्प १. मु. १.१-८॥२. छा. ६-१-३॥ -३. छा. ६.२-१॥-४. ना. ६-८, ७॥-५. छा, ६-२-३॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy