SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमते रामानुजाय नमः श्रीभगवद्रामानुजविरचिते श्रीशारीरकमीमांसाभाष्ये ---(द्वितीयाध्याये - तृतीयपादे - वियदधिकरणम् ॥)... न वियदश्रुतेः।२।३।१॥ साङ्ख्यादिवेदबाह्यतन्त्राणां न्यायामासमूलतया विप्रतिषेधाचासामञ्जस्यमुक्तम् । इदानीं स्वपक्षस्य विप्रषेधादिदोषाभावख्यापनाय ब्रझकार्यतयाऽभिमतचिदचिदात्मकप्रपञ्चस्य कार्यताप्रकारो विशोध्यते। तत्र वियदुत्पद्यते, नवा-इति संशय्यते । किं युक्तम् न वियदुत्पद्यत इति। कुतः १ अश्रुतेः; संभावितस्य हि श्रवणसंभवः; असंभावितस्य तु गगनकुसुमवियदुत्पत्त्यादेः शब्दाभिधेयत्वं न संभवति । न खलु विरवयवस्य सर्वगतस्याकाशस्य आत्मन इवोत्पत्तिनिरूपयितुं शक्यते । अत एव उत्पत्त्यसंभवात् छान्दोग्ये सृष्टिप्रकरणे तेजःप्रभृतीनामेवोत्पत्तिराम्नायते१"तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽमृत" इति। तैत्तिरीयकाथर्वणादिषु २"तस्माद्वा एतस्मादात्मन आकाशस्संभूतः"३"एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च खं वायुयोतिरापः" इत्यादिषु श्रूयमाणा वियदुत्पत्तिः अर्थविरोधाद्वाध्यते इति ॥ १॥ १. छा. ६-२-३ ॥--२. ते, आन. १-अनु ।। ३. मु. २-१-३ ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy