________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
अथ विस्तरव्याख्या
तत्र तावद् व्याख्यालक्षणं, यथा श्लोकः-पदच्छेदः पदार्थोक्तिविग्रहो वाक्ययोजना,आक्षेपस्य समाधान व्याख्यानं पञ्चलक्षणम् ॥१॥
ततः पञ्चलक्षणात्मकायां व्याख्यायां प्रथमतः पदच्छेदः" सुतिङन्तं पदम् " (१-४-१४) इति पाणिनीयसूत्रात्, सुतिङन्तानां पदानामजादिसन्धिविधानात् पृथक्करणं पदच्छेदः, तद् रेखाचिहतो द्रष्टव्यः, तथा तेषां पदानामर्थस्योक्तिः-कथन मिति पदार्थोक्तिस्तद्यथा-'सकलमिति' कल शब्दसंख्यानयोरिति [है. धातु. ७६८ ] कलधातोः पचायचि इत्यच् प्रत्ययः, स्त्रीत्वाच " अजाद्यतष्टापू" [पा. ४-१-४ इत्यादि सर्वत्राप्यवसेयम् । किञ्च, साधनविधानसूत्रादि नात्र लिख्यते विस्तरभयात् , कलति का करत इति कला, यत्कोश:-" कला स्यान् मूलविवृद्धौ शिल्पादावंशमात्रके षोडशांशेऽपि चन्द्रस्ये*"ति विश्वः [लद्विके श्लो. ४३] कलाभिः सह सकलं, 'तेन सहेति तुल्ययोग' [पा.२-२-२८]इति बहुव्रीहिसमाससिद्धत्वात् , सहस्य सादेशः, पूर्वनिपातश्च, विशे(प्य). निघ्नत्वात् वाच्यलिङ्गत्वं, यत्कोशः-"समग्रं सकलं पूर्ण (अ. को. का. ३, श्लो. २१५५ )इति अमरः । कुशलमिति, शलि चलने च [है. धा. ७६३ ] " पचायच् ", [३.-१-१३४ ] को-भूमौ शलते (ति!) इति कुशलं, यद्वा कुत्सितं शलति संवृणोतीति कुशलं, यत्कोशः-कुशलं क्षेममस्त्रियामि( अ. को. का. १, श्लो. २६६) त्यमरः, वल्लीति, वल्लि संवरणे (है.धा.७६२) 'सर्वधातुभ्यः
* कल नाकालयोः कला इति पूर्णः श्लोकः ।
For Private And Personal Use Only