SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वाक्यस्य योजना मेलनं कर्तृ क्रियासंबंधपदैरिति वाक्ययोजना. ऽन्वय इत्यर्थः, " स्वतंत्रः कर्ते" [पा. १-४-५४ ]ति वचनात् कर्तृपदस्यादौ ग्रहणमिति दिक् , स शान्तिनाथो नः श्रेयसे भवतु इति शेषाणि कर्तृविशेषणानीत्यादि स्वयमूह्यमिति वाक्ययोजना । अथाक्षेपसमाधानात्मका व्याख्या ननु कथं स शान्तिनाथोऽस्माकं श्रेयसे भविष्यत्यनेन कुत्र कस्य वा श्रेयः कृतमित्याक्षेपः, सत्यं, यतः गर्भस्थेनापि येन भगवता देशोत्पन्नमशिवमुपशमितं ततः शान्तिनामत्वं, यदुक्तं शतसप्ततितिस्थान-प्रकरणे-" संति करणाउ संति देसे असिवोवसमकरणा" त्ति [ गा. १६ ] सोमतिलकसूरिणा [ शान्तिकरणात् तु शान्तिः देशे अशिवोपशमकरणात् इति ] तथा च शान्तिचरित्रेऽप 'महान्तमशिवं तस्मिन्नासीत् पूर्व पुरे तदा, संजातो मान्द्यदोषेण लोकस्य प्रलयो महान् ॥ १॥ गन्धद्विपस्य गन्धेन दन्तिनां मदवत् क्षणात् । उपशान्तं तदशिवं प्रभावाद् गर्भगप्रभोः ॥ २ ॥ ततश्च चिन्तितं तातजननीभ्यामदो हृदि प्रभावोऽयम[नी]दृक्षः सूनोगर्भगतस्य नौ ॥ ३ ॥ इति [प्र. ६ श्लो. २४-२५-२६] तत्रैव च नामकरणप्रस्तावे, द्वादशे च दिने राजा बन्धुवर्गमशेषकं भोजयित्वा गौरवेण तत् समक्षमदोऽवदत् ॥ १ ॥ बम्वाऽशिवशान्तिर्यदस्मिन् गर्भागते जिने, तदस्य सुतरत्नस्य शान्ति मास्तु सुन्दरम् ॥ २ ॥ [प्र. ६ श्लो. ६५-६६] इत्यादि च श्रूयते हि मेघरथभवे श्येनात् 'पारापतोऽपि रक्षितों येनेत्यादि, विस्तरभयानात्र लिख्यतेऽतः श्रेयः For Private And Personal Use Only
SR No.020695
Book TitleShanti Shloak Tika Tatha Anyamat Dushanam
Original Sutra AuthorN/A
AuthorVikramvijay
PublisherChandulal Jamnadas
Publication Year1954
Total Pages31
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy