SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११७ परि० ३०] अनुभवसिद्धमन्त्रद्वात्रिंशिका। अथातः संप्रवक्ष्यामि वश्याकर्षणमुत्तमम् । येन विज्ञातमात्रेण सुखं सम्पद्यतेऽद्भुतम् ॥१॥ प्रणवं मायया युक्तं कमलायुतमेव च । ___ कलिकुण्डमुद्यतं चापि स्वामिने वशमानय ॥२॥ पुनरानय स्वाहेति मन्त्रः पार्श्वजिनाग्रतः । त्रिरात्रं साधितः पुष्पैरयुतेन वशंवदः ॥३॥ प्रणवं कामबीजं च मायाबीज तथैव च । ___ अधोरेफयुतं शून्यं वाग्बीजेन प्रसंयुतम् ॥४॥ मायावाग्भवबीजेन सहिता मायया पुनः। शून्यं रेफेण संयुक्तं सपासं सविसर्गकम् ॥५॥ श्रीभपराजितदेव्या मन्त्रोऽयमपराजितः । लक्षत्रितयजापेन सिद्धिं याति सुनिश्चितम् ॥६॥ पिण्डाकृष्टिं फलाकृष्टिं द्रव्याकृष्टिं च कामिताम् । वस्त्राद्याकर्षणं सर्व कुरुते नात्र संशयः ॥७॥ वश्या भवन्ति कामिन्यो भ्रश्यत्परिहिताम्बराः । आजन्म दास्यभावं च भजन्ते नात्र संशयः ॥८॥ यद् यत् कामयते सर्व तत् सद्यस्तस्य आयते । मन्त्रराजप्रसादेन फलमस्य न संशयः ॥९॥ प्रणवं पार्श्वनाथाय मायाबीजं तथैव च । एवं लक्षप्रजापेन मन्त्रोऽयं सिद्धथति स्फुटम् ॥१०॥ नारीणां पुरुषाणां च भूपतीनां विशेषतः । आराध्यमानो यत्नेन दशाहेन वशङ्करः ॥११॥ सहस्रमेकं यत्नेन दशाहं प्रतिवासरम् । पदभ्रष्टो जपेद् यस्तु स सद्यो लभते पदम् ॥१२॥ वाञ्छितानि च जन्तूनां फलान्यस्य प्रभावतः । कल्पद्रोरिव जायन्ते नानारूपाणि नित्यश: ॥१३॥ पाशं पाशयुतं शून्यं विषघ्नं मङ्गलं तथा। कल्याणं चेति मन्त्रोऽयं पार्श्वयक्षाभिधानतः ॥१४॥ देयोऽयं भक्तियुक्ताय सूर्यचन्द्रोपरागयोः। दीपोत्सवेऽथवा मन्त्रो रहस्सु गुरुपूजया ॥१५॥ For Private And Personal Use Only
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy