SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ११८ www.kobatirth.org अनुभवसिद्धमन्त्रद्वात्रिंशिका | तेनापि भक्तियुक्तेन शुद्धचित्तेन सन्ततम् । मायामदवियुक्तेन क्रोध लोभमदोज्झिना ॥१६॥ सत्यवाक्यप्रधानेन गुरुपादोपसर्पिणा । Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only [ परि० ३० एकभक्तोषितेनैव ब्रह्मचर्यविधायिना ॥१७॥ सहस्रैकस्य जापेन षण्मासान् प्रतिवासरम् । श्रीमत्पार्श्वजिनेन्द्रस्य गुरुपूजापुरस्सरम् ॥१८॥ ध्यातव्यः सुधिया नित्यं मन्त्रोऽयममरार्चितः । सिद्धिं याति ततस्तस्य महासत्त्वशिरोमणेः ॥१९॥ यस्यायं सिद्धयते मन्त्रो वशे तस्य वसुन्धरा । सद्यो भवति मर्त्यस्य कर्तव्यो नात्र संशयः ||२०|| द्वारे तस्य च गर्जन्ति शैलोत्तुङ्गशरीरकाः । मुहुःस्रवन्मदासारसिक्तोर्वीका मतङ्गजाः ॥२१॥ हेषन्ति च हया द्वारे वेगनिर्जितवायवः । प्रणतिं यान्ति पादानां तस्य स्फारितभक्तिकम् ||२२|| पादपीठलुठन्मूर्धमुकुटको टितटोत्कटाः । पादयोस्तस्य भूपाला लुठन्ति बहुमानिनः ||२३|| न दोषान् कोऽपि गृह्णाति गुणान् सर्वोऽपि भाषते । तस्य सौभाग्ययुक्तस्य यस्य तुष्टो जिनेश्वरः ||२४|| ब्रह्मत्रिलोककमलामूलबीजत्रयं ततः । कलिकुण्डलदण्डाय हीनमश्चाक्षराणि च ||२५|| रविसङ्ख्यसहस्राणि प्रसूनैर्जातिसम्भवैः । यः पूर्णालुकामध्ये जापं कुर्याज्जिनाग्रतः ॥२६॥ सिद्धिं याति ततो मन्त्रः पार्श्वस्यैव प्रभावतः । कामदो मोक्षदश्चापि भक्तिभाजां शरीरिणाम् ||२७|| रक्षोयक्षोरगव्याघ्रव्यालानलगरादयः । नापकर्तुमलं तेभ्यो ये चास्य शरणं गताः ॥२८॥ वह्निव्याधिपयोनिधिहरिकरिफणिचौरसंयुगादीनाम् । भयमखिलमस्य संस्मृतिमात्रादपि देहिनां व्रजति ||२९|| व्यन्तरविषविषमज्वरदुष्टग्रहशाकिनीप्रमुखदोषाः । दुरे तस्य वहन्ते यस्यायं भवति हृदयस्थः ||३०||
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy