SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . व्याख्या ये भवनपत्यादयः एते देवाः सन्तीति शेषः ते तीर्थस्य दुरितानि दलन्तु । तत्र भवनपतयः असुरादयो दशविधाः, वानमंतराः पिशाचादयः षोडश, ज्योतिष्काः पंचविधाः चन्द्र १ सूर्य २ नक्षत्र ३. ग्रह ४ तारकाः ५। किंविशिष्टाः भवनपत्यादयः ? 'धरणिंदसकसहिआ' धरणीन्द्र-शक्राभ्यां सहिताः। उपलक्षणत्वात् यथायोग्यं चमरेन्द्र १ बलीन्द्रादिकाः २ कालमहाकालेन्द्रादयः ईशानसनत्कुमारेन्द्रादयश्च ग्राह्याः । अयं फलितार्थः-एते सर्वेऽपि ये अत्र गाथायां व्याख्याताः ते सर्वेऽपि देवाः तीर्थस्य संघस्य जिनाज्ञाराधनातत्परस्य दुरितानि दलयन्तु खण्डशः कुर्वन्तु। धरणेन्द्रशक्रयोः भवनपत्यादिषु अन्तर्भूतयोरपि पृथक् ग्रहणं तयोस्तत्स्वामित्वल्यापनार्थम् ॥२०॥ अथ तीर्थपतिश्रीवर्धमाग स्तुनाह चकं जस्स जलंत, गच्छद पुरओ पणासिअतमोहं। तं तित्थस्स भगवओ, नमो नमो वद्धमाणस्म ॥२१॥ व्याख्या-तस्मै इति शेषः । वर्धमानाय नमो नमोऽस्तु । अत्र 'वद्धमाणस्से ति प्राकृतत्त्वात् चतुर्थीस्थाने षष्ठीविभक्तिः । अन्यथा नमोयोगे चतुर्थी स्यात् । 'नमो नमः' इति वीप्सा तु नमस्कारस्य अतिशयख्यापनाथम् । तस्मै कस्मै ? यस्य भगवतः तत्पूर्व किंचित् चक्रं धर्मचक्रं पुरतोऽग्रे गच्छति चलति, किं कुर्वत् ? तेजसा प्रज्वलत् । किंविशिष्ट चक्रं ? 'पणासिअतमोहं' प्रणाशितः तमसः ओघः समूहो येन तत् प्र० । किंविशिष्टाय वर्धमानाय ? तीर्थाय-तीर्थकराय ॥२१॥ पुनः वर्धमानमेव स्तुवन्नाह सो जय जिजो वीरो, जस्सनावि सासणं जए जयह। सिद्धिपहसासणं कुपह-मासणं सधभयमहणं ॥२२॥ व्याख्या-स जिनो वीरो जयतु । सः कः ? यस्य वीरस्य शासनं अद्यापि दुःषमारकेऽपि जगति जयति । सर्वशासनोपरि सर्वोत्कर्षेण वर्तते । किंविशिष्टं शासनम् ? सिद्धिपथशासनं सिद्धिपथो मुक्तिमार्गस्तस्य उपदेशकम् । पुनः किंविशिष्टं शासनं ? कुपथस्य-मिथ्यात्वमार्गस्य नाशनं स्फेटकम् । पुनः किंविशिष्टं शासनं ? 'सव्वभयमहणं' सर्वभयानां मथनम् ॥२२॥ अथ सर्वेषां तीर्थकराणां सर्वगणधरान् स्तुवन्नाह सिरिउसभसेणपमुहा, हयभयनिवहा दिसंतु तित्थस्स । सव्वजिणाणं गणहारिणोऽणहं वंछि सव्वं ॥२३॥ व्याख्या-सर्वजिनानां ऋषभादिवर्धमानान्तानां गणधराः तीर्थस्य चतुर्विधसंघस्य अनघ-विकलंक सर्वसमस्तं वाञ्छितं-मनोऽभीष्टं दिशन्तु । किविशिष्टाः गणधारिणः ? श्रीऋषभसेनप्रमुखाः श्रीऋषभसेनो नामान्तरेण श्रीपुण्डरीकः श्रीआदिनाथस्य प्रथमो गणधरः स प्रमुखःआदिर्येषां ते श्रीऋषभसेनप्रमुखाः । कियन्तः ? श्रीआवश्यकाभिप्रायेण षट्पंचाशदधिकचतुर्दशशतसंख्याका इत्यर्थः । पुनः किविशिष्टाः गणधारिणः ? 'हयभयनिवहा' । हतो निर्णाशितो भयानां इहलोकादिसप्तविधानां निवहः-समूहो यैस्ते हतभयनिवहाः ॥२३॥ . अथ श्रीवीरतीर्थप्रवर्तकं वीरवंशोन्नतिप्रापकं युगप्रवरं तेषु सर्वथा ज्येष्ठत्वेन श्रीसुधर्मखामिनं पृथक् स्मरन्नाह-- सिरिवद्धमाणतित्था,-हिवेण तित्थं समप्पियं जस्स । सम्म मुहम्मसामी, दिसउ सह सयलसंघस्स२ For Private And Personal Use Only
SR No.020658
Book TitleSaptasmaran Stava
Original Sutra AuthorN/A
AuthorSamaysundar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages59
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy