SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रायचन्द्रजैनशास्त्रमाला. सप्तभङ्गीतरङ्गिणी। वन्दित्वा सुरसन्दोहवन्दिताभिसरोरुहम् । श्रीवीरं कुतुकात्कुर्वे सप्तभङ्गीतरङ्गिणीम् ॥१॥ इह खलु तत्त्वार्थाधिगमोपायं प्रतिपादयितुकामः सूत्रकारः “प्रमाणनयैरधिगम" इत्याह । तत्राधिगमो द्विविधः स्वार्थः, परार्थश्चेति । स्वार्थाधिगमो ज्ञानात्मको मतिश्रुतादिरूपः । पराधिगमः शब्दरूपः । स च द्विविधः-प्रमाणात्मको नयात्मकश्चेति । कात्य॑तस्तत्त्वार्थाधिगमः प्रमाणात्मकः । देशतस्तत्त्वार्थाधिगमो नयात्मकः । अयं द्विविधोऽपि भेदः सप्तधा प्रवतते, विधिप्रतिषेधप्राधान्यात् । इयमेव प्रमाणसप्तभङ्गी नयसप्तभङ्गीति च कथ्यते । सप्तानां भङ्गानां-वाक्यानां, समाहारः समूहः, सप्तभङ्गीति तदर्थः । तानि च वाक्यानि भाषाकारका मङ्गलाचरण. गणेशं विघ्नहन्तारं वीतरागमकल्मषम् । प्रणम्य परया भक्त्या यत्नमेतं समारभे ॥१॥ श्रीगुरोश्चरणद्वन्द्वं सारं सारमहर्निशं । सप्तभङ्गितरङ्गिण्या अनुवादं करोम्यहम् ॥२॥ शिष्टाचारप्राप्त विघ्नविनाशार्थ तथा ग्रन्थकी परिसमाप्तिकी कामनासे उक्त ग्रन्थकार श्रीविमलदासजी स्वाभीष्ट श्रीअर्हन् भगवान् महावीर स्वामीको वन्दना ' वन्दित्वा' इत्यादि श्लोकसे करते हैं। श्लोकान्वय-अहं विमलदासः यह अध्याहृत पद है. सुरसन्दोहवन्दिताविसरोरुहं श्रीवीरं-श्रिया अष्टप्रातिहार्यादिलक्ष्म्या पञ्चकल्याणसमये इन्द्रासनकम्पनादिलक्ष्म्या च युक्तो वीरः श्रीवीरस्तं वन्दित्वा कुतुकात् सेप्तभङ्गीतरङ्गिणीम् कुर्वे ॥ भावार्थ-मैं विमलदास सम्पूर्ण देवसमूहोंसे जिसका चरणकमल नमस्कृत है ऐसे अर्थात् सर्व देवसमूह नमस्कृत रक्तचरणारविन्दयुक्त तथा अष्ट महा १ नमस्काररूप मङ्गलाचरण. २ निखिलदेवसमूहनमस्कृतचरणपङ्कजम्. ३ नमस्कृत्य. ४ कुतूहलादनायासेनेति भावः. ५ सप्तानां स्यादस्ति नास्तीत्यादि भङ्गानां समाहारः सप्तभङ्गी तद्रूपां तरङ्गिणीम्. ६ रचयामीति भावः, For Private And Personal Use Only
SR No.020654
Book TitleSaptabhangi Tarangini
Original Sutra AuthorN/A
AuthorVimaldas, Pandit Thakurprasad Sharma
PublisherNirnaysagar Yantralaya Mumbai
Publication Year
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy