SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमोऽध्यायः । सम् । ननु सर्वदोपलम्भापत्तेर्दुःखस्य स्वाभाविकत्वशङ्गैव नास्तीति चेत्र । विगुणात्मकत्वेन चित्तस्य दुःखखभावत्वेऽपि सत्त्वाधिक्येनाभिभवात् सदा दुःखानुपलब्धिवदात्मनोऽपि तदनुपलब्धिसम्भवात् । दुःखखाभाविकत्ववादिभिर्बोहैश्चित्तस्यैवात्मताभ्युपगमाच्च । यथैवमात्मनाशादेव मोचोऽस्त्विति चेन । श्रहं बद्धो विमुक्तः स्यामिति बन्धसामानाधिकरण्यनंद मोचस्य पुरुषार्थत्वादिति ॥ ७ ॥ 1 भवत्वननुष्ठानं तेन किमित्यत बाह । स्वभावस्यानपायित्वादननुष्ठानलचणमप्रा १५ माण्यम् ॥ ८ ॥ स्वभावस्य यावद्द्रव्यभावित्वान्मोक्षासम्भवेन तत्साधनोपदेश श्रुतेरननुष्ठानलचणमप्रामाण्य स्यादित्यर्थः ॥ ८ ॥ ननु श्रुतिबलादेवानुष्ठानं स्यात् तत्राह । नाशक्योपदेशविधिरुपदिष्टेऽप्यनुपदेश: ॥ ॥ नाशक्याय फलायोपदेशस्यानुष्ठानं सम्भवति । यत उपदिष्टेऽपि विहितेऽप्यशक्यस्योपाये स उपदेशो न भवति । किन्तूपदेशाभास एव बाधितमर्थं वेदोऽपि न बोधयतीति न्यायादित्यर्थः ॥ ८ ॥ अत्र शङ्कते । शुक्लपटवद्दीजवञ्चेत् ॥ १० ॥ ननु स्वाभाविकस्याप्यपायो दृश्यते । यथा शुरूपटस्य स्वाभाविक शौक्का रागेणापनयते । यथा च वीजस्य स्वाभा विक्ाप्यङ्कुरशक्तिरग्निनापनीयते । अतः शुक्लपटवद्दीनवच्च For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy