SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६ सांख्यदर्शनम् । स्वाभाविकस्य बन्धस्याप्यपायः पुरुषे सम्भवतीति तदेव तत्साधनोपदेशः स्यादिति चेदित्यर्थः ॥ १ ॥ समाधत्ते । शक्त्युङ्गवानुद्भवाम्यां नाशक्योपदेशः ॥ ११॥ । उक्तदृष्टान्तयोरपि नाशक्याय स्वाभाविकायापायोपदेशो लोकानां भवति । कुतः । शक्त्य इवानुद्भवाभ्याम् । दृष्टान्तsafe शौक्कादेराविर्भावतिरोभावावेव भवतः । न तु शौक्यावरशक्त्योरभावो भवति । रजकादिव्यापारैयगिसङ्कल्पादिभिश्व रक्तपटसृष्टबोजयोः पुनः शौक्तशङ्कुरशक्त्याविर्भावादित्यर्थः । नन्वेवं पुरुषेऽपि दुःखशक्तितिरोभाव एव मोहोस्विति चेत्र दुःखात्यन्तनिवृत्तेरेव लोके पुरुषार्थत्वानुभवात् श्रुतिस्मृत्योः पुरुषार्थत्वसिद्धेश्च । न तु दृष्टान्तयोरिव तिरोभावमात्रस्येति । किञ्च दुःखयक्तितिरोभावमावस्य मोचले कदाचिद्योगीश्वरसङ्कल्पादिना शक्त्युद्भवस्य भृष्टवोजेष्विक मुक्तेष्वपि सम्भवेनानिर्मोक्षापत्तिरिति ॥ ११ ॥ । स्वभावतो बन्धं निराकृत्य निमित्तभ्योऽपि बन्धमपाकरोति सूत्रजातेन । पुरुषे दुःखस्य नैमित्तिकत्वेऽपि ज्ञानाद्यपायोच्छेद्यत्वं न घटेत । श्रनागतावस्थ सूक्ष्म दुःखस्य यावदद्रव्यभावित्वादित्याशयेन नैमित्तिकत्वं निराक्रियते । न कालयोगतो व्यापिनो नित्यस्य सर्वसम्ब ग्वात् ॥ १२ ॥ कुतः । नापि कालसम्बन्धनिमित्तकः पुरुषस्य बन्धः । व्यापिनो नित्यस्य कालस्य सर्वावच्छेदेन सर्वदा मुक्तासुक्त - सकलपुरुषसम्बन्धात् । सर्वावच्छेदेन सदा सकलपुरुषाणां बन्वापत्तेरित्यर्थः । अत्र च प्रकरणे कालदेशकर्मादीनां For Private And Personal Use Only 2
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy