SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४ सन्देह नानाविगोपकैरेवं, सुतः सम्पूर्णतां गतः । तेनापि षष्टिदिवसे, तारकाख्यो निपातितः ॥१४॥ पालकः कथ्यते विष्णुः, प्रत्यक्ष शत्रुरूपभाक् । बलिना सुखितं लोकं, यो न सेहे ह्यमर्षणः ॥१४९।। प्रलयस्थितिसर्गाणां, हेतुर्दैवत्रयी मता। ज्ञानं च समभूत्तस्य, न वेति प्रतिपाद्यताम् ॥१५०॥ ज्ञानं चेत्तर्हि दैत्याली, स्वानर्थाय कथं कृता ? । पालिता संहृता चेति, पश्यतां बालवल्गितम् ॥१५१॥ नग्नाचार्यप्रवेशाभो, देवत्रितयमेलकः । एकस्य मुख्यता कार्य-योगादन्यस्य लाघवम् ॥१५२।। एकैव मूर्तिबिभेदे त्रिधासौ, न वाक्यमेतद् घटनामुपैति । ___ हरेविरश्चन पुरा विवादो, वृद्धत्वहेतोर्भवता श्रुतः किम् ? ॥१५॥ पुराणे श्रूयते नार्यः, पूर्वमासन्निरर्गलाः । ये ताभिस्तनया जाता-स्ते कस्य कुलदीपकाः ॥१५४॥ क्षयाहं कस्य कुर्वन्तु ? , यच्छन्तु च जलाञ्जलिम् ? । श्राद्धं च कस्य वै नित्यं ?, विचार्या निगद्यताम् ॥१५॥ औद्दालके श्वेतकेतो-ये पूर्वमभवन् द्विजाः । स्वैरिणीभिश्च ये नाताः, कस्तेषां कुलजो मदः ? ॥१५६॥ यतो भारते अनावृताः स्ववर्णेषु, सर्वसाधारणाः पुरा । ___ नार्यो बभूवुनिरो, यतः सर्वोऽभवजनः ॥१५७॥ औद्दालकेः श्वेतकेतुर्विजने वीक्ष्य मातरम् । करेण नेतुमाकृष्टा-मपूर्वेण द्विजन्मना ॥१५॥ कुपितो विदधे स्त्रीणा-मेकपत्नीव्रतस्थितिम् । पत्युश्च शासनात्तासां, न दोषः परसङ्गमे ॥१९॥ भतः कल्माषपादस्य, दमयन्ती पुरा सती । आज्ञया तनयं लेभे, वशिष्ठादश्मकाभिधम् . ॥१६०॥ For Private And Personal Use Only
SR No.020629
Book TitleSandeh Samucchay
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah
Publication Year
Total Pages46
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy