SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समुच्चयः । ___ एषा पाण्डो: शिक्षा कुन्ती प्रतिश्लोकाः ॥४॥ उक्तं च दर्पदलनेअनादाविह संसारे, दुर्वा रे मकरध्वने । कुले च कामिनीमूले, का जाते: परिकल्पना ! ॥१६१॥ कुलस्य कमलस्येव, मूलमन्विष्यते यदि। दोषपकप्रसक्तोऽन्तस्तदवश्य प्रदृश्यते ॥१६२॥ एकश्चेत् पूर्वपुरुषः, कुले यज्वा बहुश्रुतः । अपरः पापकृन्मूर्खः, कुलं कस्यानुवर्तते ॥१६३॥ कुलाभिमानाभरणस्य माता, पितामही वा प्रपितामही वा । योषित् स्वभावेन यदि प्रवृत्ता, तदेष दोषः कुलमूलकाषः ।।१६४॥ कुलभिमानः कस्तेषां, जघन्यस्थानजन्मनाम् । कुले कुलङ्कषा येषां, जघन्या निम्नगा स्त्रियः ॥१६॥ नैषधे-शुद्धिवंशद्वयो शुद्धौ, पित्रोः पित्रोर्यदेकशः । ___ तदनन्तकुला दोषा-ददोषा जातिरस्ति का? ॥१६६॥ कुलाभिमानिभिर्वार्ता, छन्दोदेवस्य न श्रुता । यस्यां च श्रुतमात्रायां, प्रयाति कुलजो मदः ॥१६॥ पुरा हि नारदस्याये, द्रौपद्या सत्यपञ्चकम् । यदाख्यायि तदेवापि, श्रुतमप्यश्रुतीकृतम् ॥१८॥ यतः-सुरूपाः पञ्च योद्धारः, पाण्डवाः पतयो मम । तथापि कुरुते वाञ्छां, मनः पठेऽपि नारद ! ॥१६९॥ रहो नास्ति क्षणो नास्ति, नास्ति प्रार्थयिता नरः । तेन नारद ! नारीणां, सतीत्वमुपजायते ॥१७॥ सुरूपं पुरुषं दृष्ट्वा, पितरं भ्रातरं सुतम् । मनश्चलति नारीणा-मेतत्सत्यं हि नारद ! ॥१७१॥ नारीणां न प्रियः कश्चि-न्न च द्वेष्योऽपि कश्चन । गावस्तृणमिवारण्ये, निघत्सन्ति नवं नवम् ॥१७२॥ For Private And Personal Use Only
SR No.020629
Book TitleSandeh Samucchay
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah
Publication Year
Total Pages46
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy