SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सन्देह आकाशपाशशुकबन्धसमानभावा, विप्रो गृही यतिवनस्थ इति प्रवादः । आनन्दबोधतनुके मयि पुंसि नित्ये, मोहो महानयमहो! महदिन्द्रनालम् १२७॥ मनो विना न कोऽप्यस्ति, देवता भुवनत्रये । कल्पितं मनसा यच्च, तदन्यदपि देवता ॥१२॥ यतः-वाणी विद्या धनं लक्ष्मीः, स्त्रीवाञ्छा मकरध्वजः । ___ लामो लम्बोदरश्चेति, सर्वाः · कल्पितमूर्तयः ॥१२९॥ व्यासेनापि उक्तम् आत्मा नदी संयमतोयपूर्णा, सत्यावहा शीलतटा दयोर्मिः। तत्राभिषेकं कुरु पाण्डुपुत्र!, न वारिणा शुद्ध्यति चान्तरात्मा ॥१३०॥ विष्णुरूपं जगदिदं, तथा शिवमयं परे । ___ गन्तुं स्थातुं तत्र भोक्तुं, तद्भक्तानां न युज्यते ॥१३१॥ एका मूर्तिस्त्रयो भागाः, सत्यं स्याद् यदिदं वचः । नैशा नमन्ति किं विष्णुं ?, हरेभक्तास्तु नो शिवम् ? ॥१३२॥ लिङ्गमीशस्य पन्यं स्या-दुत मूर्त्यन्तरं पुनः । लिङ्गं चेत् किं न सा मूर्तिर्या पूर्वमभवत् ततः ॥१३३॥ देहे भवन्तु वस्त्राणि, पञ्चषाणि न कौतुकम् । लिङ्गे तु पञ्च वक्त्राणि, तदाश्चर्यमहो! महत् ॥१३४॥ स्थानस्थिते महेशस्य, लिङ्गेऽभूत्पञ्चवक्त्रता । पतिते वास्ति सन्देहः, सम्यग् ज्ञात्वा निगद्यताम् ॥ १३५॥ आये तु जया रुद्धे, नावकाशः क्वचिद्भवेद् । पतिते चेतनाऽभावात् , कुतोऽभूद्वक्त्रसम्भवः ॥१३६॥ सर्वेषामेव देवानां, मूर्ति-रेण वेश्यते । ___ अपद्वारेण चेशस्य, कारणं तद्विचार्यताम् ॥१३७॥ वह्निवसति तन्नेत्रं, मूतवीशस्य विद्यते । लिङ्गस्य दृश्यमानस्य, प्रणामः किं पराङ्मुखः ? ॥१३८॥ For Private And Personal Use Only
SR No.020629
Book TitleSandeh Samucchay
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah
Publication Year
Total Pages46
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy