SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समुच्चय :। ११ तथा नैषधे एकादशे स्वर्गेदेवी पवित्रितचतुर्भुजवामभागा, वागाऽऽलपत्पुनरिमां गरिमाभिरामाम् । अस्यारिनिष्कृपकृपाणसनाथपाणेः, पाणिग्रहादनुगृहाण गणं गुणानाम् ॥११७॥ तथा च खण्डप्रशस्तौकीर्तिस्ते नृप! दूतिका सुररिपोरङ्कस्थितां भारती, मां निहत्य ददौ तवेति गिरिशोऽभूदर्द्धनारीश्वरः । ब्रह्माऽभूच्चतुराननः सुरपतिश्चक्षुःसहस्रं दधौ, स्कन्दो मन्दमतिश्चकार न करस्पर्श स्त्रियः शङ्कितः ॥११८॥ पूर्वस्यामुदयी भानुः, प्रासादे पूर्वतो मुखे । यात्रा च प्रथमे यामे, नतिः कस्य विधीयताम् ? ॥११९॥ इंदं तीर्थमिदं तीर्थ, ये भ्रमन्ति तमोवृताः । __ आत्मतत्त्वमजानन्तः , क्लिश्यन्ते ग्रहिला इव ॥१२०॥ तीर्य तीर्थ भ्रमन्तीह, यस्य दर्शनवाञ्छया । __ वसन्नपि हि देशेऽसौ, देवो द्रष्टुं न शक्यते ॥१२१॥ उक्तं च- तीर्थानामष्टषष्टिा, प्रोक्ता स्मृतिषु भारत ! । ततो भागीरथी श्रेष्ठा, ततोपि जननी मता ॥१२२॥ व्यासेनापि हि तीर्थेषु, परं तत्त्वमपश्यता । सवित्री परमं तीर्थ, यदुक्तमैहलौकिकम् ॥१२३॥ यदुक्तम्-पितुमातृसहस्राणि, पुत्रदारशतानि च । भवे भवे मनुष्याणां, को वा नैकस्य बान्धवः ? ॥१२४॥ यतो भागवतेऽप्युक्तम्अटन्तु हन्त ! ते शैला-नुपलानर्चयन्तु च । निम्नगासु निमज्जन्तु, नाथ ! येभ्यः पृथग्भवान् ॥१२॥ तक्षादिनीचैस्तु कृतानसत्यैः, पाषाणमृद्दारुमयाश्च देवान् । भनन्ति ये माधव! निन्दकास्ते, पूर्णः सदानन्दमयो हि विष्णुः॥१२६॥ For Private And Personal Use Only
SR No.020629
Book TitleSandeh Samucchay
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah
Publication Year
Total Pages46
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy