________________
Shr
a
na Kendre
Acharye Sherilassagers
Gyanmandir
देवता स्वयं पार्षबासौ जिनेवरच तस्य स्तवं विधाय, वाचां वाणीनां मुखं यस्मिन् सः तस्मिन् क्षणे काले, जिनेश्वरे स्तुते स्तविते किं अयं मदीयो मुनिः मबिना स्तोतुमशक्त इति विचार्य स्वयं जिनेश्वरं स्तवितवती किमीतीयमुपेक्षा इति भावः ॥ ३॥
. अयं विमों घटते न ते कदा, त्वदागमे मातरिहेव शोभनम् ।
परोपकारे प्रकृतिर्धवं सतो, धुरि स्थिता त्वं हि परोकारिणाम् ॥ ४ ॥ अयमिति। हे मातर! अयं पूर्वोक्ता ते तव विमर्शः विचारः कदा कस्मिन् अपि काले न घटते न योग्यः न युज्यते किं? अपितु सदैव योग्यः सदैव युज्यते, तव आगमः शास्त्रं तस्मिन्त्वदागमे त्वत्शास्त्रे इहैव अस्मिन्विमर्श एव शोभनं समंजसं भवेत् । सतां सज्जनानां परेषां उपकारः तस्मिन् परोपकारे प्रकृतिः स्वभावः ध्रुवं निश्चितं त्वं परोपकारिणां परोपकर्तृणां धुरि अग्रे स्थिताऽसि, हि निश्चितं परोपकारकारिण्या स्तव मत्सहायताकरणं युक्तमेवेति शासनदेवतास्तवनं कार्यसिध्यर्थं शासनदेवताबलेन स्ववनसामध्यमस्ति, तथापि मनश्चञ्चलत्वात्कय स्तुवे ? इति अधुनावदति ॥४॥
स्तुवे कथं त्वां करुणासरित्पति-मवस्थितध्यानधिया मनस्विनाम् ।
धृतं क्षणं मे न मनः स्थिरं हि कै-श्चले जलेऽर्कप्रतिबिम्बमिष्यते ॥ ५॥ स्तुवेति । मनस्विनां विद्वज्जनानां अवस्थिता स्थिरा चासो ध्यानस्य धीश्च तथा विद्वज्जनसंबन्धिन्या एकाग्रबुद्धया करुणादयैव सरित्तस्याः पर्ति स्वामिनं त्वां कथं कया रीत्या स्तुवे ? स्तुति करोमि । मे मया मनः चित्तं न धृतं न स्थिरीकृतं । चले चञ्चले, जले कैरपि मनुष्यै स्थिरं अचलं अर्कस्य सूर्यस्य बिम्बम् छाया इष्यते मन्यते ? अपि तु नेष्यते, यथा चले जले सूर्यबिम्बं स्थिरं न, तथा चल
For Private And Personal use only