________________
Shn Mahavir Jain Aradhana Kendra
www.kabathorg
Acharya Shri Kailassagersuri Gyanmandir
शान्तिनाथ
मिनस्तो
फुत्कार निर्गतगरप्रसरहवाग्नि-धूम्रीकृतत्रिजगतीजनसद्गुणोघः । दंदश्यते जिन ! न तं स्मयदन्दशक-स्त्वन्नामनागदमनी हृदि यस्य पुंसः ॥ ३७ ॥
फुकारेति । हे जिन ! फुत्कारेण फुत्करणेन निर्गतश्वासौ गरश्च विषं तेन प्रसरं श्वासौ दवाग्निश्च बनाग्नि स्तेन धूम्रीकृताः त्रिजगत्या त्रिलोकस्य जनस्तेषां सद्गणानामोघाः समूहा येन, स्मय एव दंदकः दर्पसर्पः यस्य पुंसः नरस्य हदि मनसि तव नाम, तदेव नाग सर्प दमयति निस्तेजस्कं करोतीति नागदमन्यौषधिरस्ति तं न दंदश्यते न दशति ॥ ३७॥
निर्दस्युमित्र ! भुवि यद्यसि वीतराग-स्वद्रागिणों कथमनन्तभवोद्भवाकम् ।
आदित्यतः किमु ननु वदवाङ्मुखानां, वकीर्तनात्तम इवाशु भिदामुपैति ॥ ३८॥
निर्दस्युमित्रेति । निर्गताः दस्यवः कामक्रोधादि चौराः यस्मात् अत एव मित्र इव सूर्य इव, चौरा हि वस्तुहरणं कुर्वन्ति कामादयोऽपि आत्मस्वरूपवस्तुहरा इति चौराः, तमोऽपि वस्तुदर्शनहरमत थोररूपं तत्, यथा सूर्यात्पलायति तयत् कामादयास्तीर्थेवरात् पलायन्ते इति सूर्यसादृश्य, अथवा निर्दस्यूनां निर्गतकामादीनां मित्रं मुहृत्तत्संबुडौ निर्दस्युमित्र ! भुवि भूमौ विगतः रागः स्नेहो यस्य सत्वं यद्यसि ? तहि त्वयि रागो येषां तेषां त्वद् रागीणां अनन्ताश्च ते भवाश्च तेभ्यः उद्भवं च जातं तदकं च दुःखं तत् कथं भवेत् ? नैव भवेत् । तु वितर्क, त्वयि अवारु ननं मुखं येषां तेषां तब रागीणां तब कीर्तनात् स्मरणात् आदित्यतः सूर्यात् इव तमः अज्ञानं भिदां भेदं नोपैति कि ? अपि तूपैति ॥ ३८ ॥
For Private And Personal use only