SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.baitorg Acharya Shri Kailassagersuri Gyanmandir संतप्तदीप्ततमनीयमनोज्ञमूर्ते ! प्रोद्गच्छदुर्मिचलभावविनाशरूपम् । सद्धधानगन्धमिह कोविदचश्वरीका-स्त्वत्पादपङ्कजवनाशयिणो लभन्ते ॥ ३९ ॥ संपतेति । संतप्तं च तत् दीप्ततपनीयं च अग्नितप्तदेदीप्यमानसुवर्ण तद्वत मनोज्ञा सुन्दरा मुर्तिर्यस्य तत्सबुडौ प्रकर्षणोद्गच्छन्त्यश्च शता धर्मयश्च पोच्छलत्तरंगास्ता इच चलाश्च ते भावाश्च मनोविकारास्तेषां विनाशो विध्वंसः, रूपं स्वरूपं यस्य तं इह जगति तव पादाषेव पङ्कजानां कमलनां वनं तदायिणः तदाश्रयकर्तारः कोविदाश्च विद्वांसस्ते चश्चरीकाश्च भ्रभराः ते सच्च तत् ध्यानं तस्य गन्धं मुगन्धं सभन्ते माप्नुवन्ति ॥ ३९ ॥ माहात्म्यमत्र तव कैरपि चिन्तनीयं, तहयेयगात्रतपसोऽसुकरान्न केचित् । अन्तं जनुर्निधनयोर्गहनेऽपि भूय-खासं विहाय भवतः स्मस्णाद् ब्रजन्ति ॥ ४०॥ माहात्म्यमिति । अत्र जगति कैरपि जनैस्तव तत्मसिद्ध महानात्मा यस्य तस्य भावः माहात्म्य सामर्थ्य चिन्तितुं योग्यं चिन्तनीयं मनोविषयीकरणयोग्यं न भवति, माहात्म्यस्यापारलात् । तर्हि माहात्म्यचिन्तनेन केऽपि मोक्ष मन्तुं न शक्नुवन्ति । ध्यातुं योग्यं ध्येय तत् गच्छतीति ध्येयगस्तत्संबुद्धौ हे ध्येयग! साप्तात्मस्वरूप ! अत्र संसारे केचिज्जनाः नसुकरममुकरं तस्मादसुकरात् दुष्करात् तपसस्तपश्चरणात् मुक्ति गच्छन्ति, गहनेऽपि दुर्मयेऽपि भये भूयः बहवो जनाः भवतः स्मरणात् जनुब जन्म च निधनं च नाशब जनुनिधन एतयोः जनुनिधनयोस्खासं दुखं विहाय त्यत्वाऽन्तं मोक्षं ब्रजन्ति गच्छन्ति ।। ४०॥ For Private And Personal use only
SR No.020614
Book TitleSadharan Jain Stotra Sangraha
Original Sutra AuthorN/A
AuthorMuktivimal Gani
PublisherMansukhlal Shah
Publication Year1920
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy