SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra NNNNNUA www.kobatirth.org. यथार्थ तस्य भावः यथार्थता तया यादृशं स्वरूपं तादृशं द्रष्ट्वा भवत आश्रितानां नः अस्माकं कृतश्च कृत अपि भयं भीतिर्न भवति ॥ ३४ ॥ कन्दर्पसर्पपतिदाहसुपर्णरूप-नष्टज्वलत्स्मयहुताशनलोलुपाऽपि । Acharya Shri Kailassagarsuri Gyanmandir तृनिम्नगा स्वयमतीर्य्यमिषाम्बुपङ्का, नाक्रामति क्रमयुगाचलसंश्रितं ते ॥ ३५ ॥ कंदर्पति । कन्दर्पः मदनः स एव सर्पाणां पतिस्तस्य दाहे नाशे सुपर्णरूपः गरूडरूपः नष्टः नाशप्राप्तः ब्वलन् प्रज्वलन् स्मयो दर्प एव हुताशनो वहि र्यस्मात् तत्संबुद्धौ, तृट् तृष्णा एव निम्नं नतप्रदेशं गच्छतीति निम्नगा नदी, कथं भूता तर्तुं योग्यं तीयै च कपटं तदेबाम्बुपङ्कौ जलकर्दमौ यस्यां पुनः कथं लोलुपापि आक्रमणं लोभवत्यपि ते तव क्रमयोः पादयोः युगं युग्मं तदेवाचलः पर्वतः तस्मिन् संश्रितं आश्रितं जनं स्वयमात्मना नाक्रामति नाधितिष्ठति ।। ३५ ।। दिश्येत मुक्तिरिति वा न हि सेवयाऽस्य. मिथ्याविमर्शनमदोऽस्ति मदोज्झितस्य । संसारदुःखनिचितं यदि पापतापं, त्वन्नामकीर्त्तनजलं शमयत्यशेषम् ॥ ३६ ॥ दिश्येति । यदि तव नामाभिधानं तस्य कीर्तनं तदेवजलं तत् संसारस्य दुःखं निचितं संपादितं येन स तं पापस्य तापः अग्निस्तं नास्ति शेषः यस्य तं समग्रं शमयति नाशयति, तर्हि मदः उज्जितस्त्यक्तो येन तस्यास्य शान्तिनाथस्य सेवया मुक्तिः दिश्येत प्राप्येतेति विमर्शनं विचारः अदः वा इदमपि मिथ्या नास्ति, हि निश्चितं कर्मणां भवदातृत्वं तेषां समूलं तब नामकीर्तनात् नाशे मुक्तिरेबावशेषिता इति भावः ॥ ३६ ॥ For Private And Personal Use Only
SR No.020614
Book TitleSadharan Jain Stotra Sangraha
Original Sutra AuthorN/A
AuthorMuktivimal Gani
PublisherMansukhlal Shah
Publication Year1920
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy