SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः । टवर्गझ्या प्राचुर्य यथा'वचने तव यत्र माधुरी सा हृदि पूर्णा करुणा च कोमलेऽभूत् । अधुना हरिणाक्षि हा कथं वा कटुता तत्र कठोरताविरासीत् ॥' 'अधुना सखि तत्र हा कथं वा गतिरन्यैव विलोक्यते गुणानाम्' इति त्वनुगुणम् । रेफघटितसंयोगस्यासकृत्प्रयोगो यथा'तुलामनालोक्य निजामखर्व गौराङ्गि गर्व न कदापि कुर्याः । लसन्ति नानाफलभारवत्यो लताः कियत्यो गहनान्तरेषु ॥' यदि तु 'तुलामनालोक्य महीतलेऽस्मिन्' इति निर्मीयते तदा साधु । हलाल-म-न-भिन्नानां स्वात्मना संयोगस्यासकृत्प्रयोगो यथा-'विगणय्य मे निकाय्यं तामनुयातोऽसि नैव तन्याय्यम् ।' ल-म-नानां स्वात्मनासंयोगस्तु न तथा पारुष्यमावहति । यथा 'इयमुल्लसिता मुखस्य शोभा परिफुल्लं नयनाम्बुजद्वयं ते । जलदालिमयं जगद्वितन्वन्कलितः क्वापि किमालि नीलमेघः ॥' झयद्वयघटितसंयोगस्य यथा-- ___ 'आ सायं सलिलभरे सवितारमुपास्य सादरं तपसा । - अधुनाब्जेन मनाक्तव मानिनि तुलना मुखस्याप्ता ॥' अत्र.द्वितीयार्धमरम्यम् । 'सरसिजकुलेन संप्रति भामिनि ते मुखतुलाधिगता' इति तु साधु । लीलाः । चपला विद्युत् । एतेनान्यत्सर्व रमणीयमिति सूचितम् । वचन इति । हे कोमले तव यन्त्र वचने सा माधुरी, स्वान्ते पूर्णा करुणा चाभूत् ।हे हरिणाक्षि, अधुना । हेति खेदे । कथमिव तत्र यथाक्रमं कटुता कठोरता चाविरासीदित्यर्थः । अत्रो. त्तरार्धे टवर्ग झयां नैकत्येन प्राचुर्य बोध्यम् । अत एवाह-अधुनेति । अखर्व गर्वमित्यन्वयः । गहनं काननम् । साध्विति । एकत्र सत्त्वेऽपि प्राचुर्याभावः । हकारघटितसंयोगस्यासकृत्प्रयोगोदाहरणं त्रुटितमत्र । निकाय्यं निवासम् । तां सपत्नीम् । नायिकोक्तिर्नायकं प्रति । वहतीति । अतस्तदन्यत्वं निवेशितमिति भावः । इय.. For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy