SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७० काव्यमाला। यदि तु 'दन्तांशुकान्तमरविन्दरमापहारि सान्द्रामृत' इत्यादि क्रियते तदा सर्वमेव रमणीयम् । विसर्गप्राचुर्य यथा 'सानुरागाः सानुकम्पाश्चतुसः शीलशीतलाः । हरन्ति हृदयं हन्त कान्तायाः स्वान्तवृत्तयः ।।' अत्र शकारद्वयसंयोगान्तं पूर्वार्ध माधुर्याननुगुणम् । जिह्वामूलीयप्राचुर्यं यथा'कलितकुलिशघाताः केऽपि खेलन्ति वाताः कुशलमिह कथं वा जायतां जीविते मे । अयमपि बत गुञ्जन्नालि माकन्दमौलौ __चुलुकयति मदीयां चेतनां चञ्चरीकः ॥' अत्र द्वितीयजिह्वामूलीयपर्यन्तमननुगुणं माधुर्यस्य । यदि च 'कथय कथमिवाशा जायतां जीविते मे मलयभुजगवान्ता वान्ति वाताः कृतान्ताः' इति विधीयते तदा नायं दोषः । उपध्मानीयप्राचुर्य यथा'अलकाः फणिशावतुल्यशीला नयनान्ताः परिपुङ्कितेषुलीलाः । चपलोपमिता खलु स्वयं या बत लोके सुखसाधनं कथं सा ॥' अत्र द्वावुपध्मानीयावेव न शान्तानुगुणौँ । त्येव । परिवेषच्छलेनेति भावः । यदि त्विति । दन्तकिरणरम्यं कमलशोभापहारीत्यर्थः । हरन्ति । ममेति शेषः । नायकोक्तिरियम् । पूर्वार्ध तदवयवभूतम् । जिढत्यस्य विसर्गादेशेत्यादिः । एवमग्रेऽपि । कलितेति । नायिकोक्तिः सखी प्रति । कलितः कृतः कुलिशवद्वज्रवद्धातो यैस्तादृशाः केऽपि विलक्षणा वाताः खेलन्ति क्रीडां कुर्वन्ति । अत इह देशे मम जीविते कुशलं कथं जायताम् । वाशब्दः पादपूरण इवार्थे वा । कारणान्तरमाह-अयमिति । हे आलि, माकन्दतरुमौलावाम्रतरुमस्तके गुअन्नयमपि चश्चरीको भ्रमरः । बतेति खेदे । मदीयां चेतनो चुलकयति । चुलकवदापिषतीत्यर्थः । मलयाचलस्थतरुस्थितसर्पमुखनिःमृता इत्यर्थः । अत एव कृतान्ताः । अत्र सकृ. त्सत्त्वेऽपि प्राचुर्याभावः । अलका इति । यस्या इति शेषः । पुङ्कयुक्तबाणसदृश For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy