SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ७२ काव्यमाला । झय्यघटितसंयोगस्य सकृत्प्रयोगो यथा - 'अयि मन्दस्मितमधुरं वदनं तन्वङ्गि यदि मनाक्कुरुषे । अधुनैव कलय शमितं राकारमणस्य हन्त साम्राज्यम् ॥' नन्वत्र ककारद्वयसंयोगस्य हल्घटितस्वात्मसंयोगत्वेनैव निषेधात्कखसंयोगस्य महाप्राणसंयोगनिषेधविषयत्वात्ततीयसंयोगस्य चासंभवात्सवर्णझय्द्वयसंयोगनिषेधो निरवकाश इति चेत् । न । सकृत्प्रयोगविषयत्वेनास्य पार्थक्यात् । अन्यथा मनाकुरुष इति निर्दोषं स्यात् । महाप्राणघटितसंयोगो यथा - 'अयि मृगमदबिन्दु चेद्भाले बाले समातनुषे ।' उत्तरार्धे तु प्राचीनमेव । Acharya Shri Kailassagarsuri Gyanmandir एवं त्वप्रत्ययं यङन्तानि यङ्लुगन्तान्यन्यानि च शाब्दिकप्रियाण्यपि मधुररसे न प्रयुञ्जीत । एवं व्यङ्ग्यचर्वणातिरिक्तयोजनाविशेषापेक्षानापाततोऽधिकचमत्कारिणोऽनुप्रासनिचयान्यमकादींश्र संभवतोऽपि कविर्न निबभीयात् । यतो हि ते रसचर्वणायामनन्तर्भवन्तः सहृदयहृदयं स्वाभिमुखं विदधाना रसपराङ्मुखं विदधीरन् । विप्रलम्भे तु सुतराम् । यतो मधुरतमत्वेनास्य निर्मलसितानिर्मितपानकरसस्येव तनीयानपि स्वातन्त्र्यमावह पदार्थः सहृदयहृदयारुंतुदतया न सर्वथैव सामानाधिकरण्यमर्हति । यदाहु: 'ध्वन्यात्मभूते शृङ्गारे यमकादिनिबन्धनम् । शक्तावपि प्रमादित्वं विप्रलम्भे विशेषतः ||' 1 मिति । अधुना द्वितीयेऽह्नि । अयीति । अयि तन्वङ्गि, यदि वदनं मनाक् मन्दस्मितमधुरं कुरुषे तर्हि अधुनैव । न तु कालान्तरे । हन्तेति हर्षे । चन्द्रस्य साम्राज्यं शमितं कलय | जानोहीत्यर्थः । कखेति । खादिधातुपाठे इति भावः । व्यङ्गयेति । व्ययास्वादान्यो यो योजनाविशेषः । पदार्थानां तदपेक्षा नेत्यर्थः । यतो हीति । निपातसमुदायो हेतौ । सुतरामिति । पूर्वोक्तसर्वानुषङ्गः । तनीयानपि पदार्थोः रजःकणः - पदार्थैकदेशश्च स्वातन्त्र्यं स्वाभिमुखत्वं कुर्वन्नित्यर्थः । निबन्धनं शक्तावपि प्रमादित्वरूपं For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy