SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२२ काव्यमाला। अत्रार्थान्तरन्यासान्विता । केऽपि स्मरन्त्यनुसरन्ति च केचिदन्ये पश्यन्ति पुण्यपुरुषाः कति च स्टशन्ति । मातर्मुरारिचरणाम्बुजमावि गङ्गे भाग्याधिकाः कतिपये भवती पिबन्ति ॥' अत्रैकं कर्मक्रियाणां साधारणम् । व्यङ्गयैषा यथा'अये लीलाभनत्रिपुरहरकोदण्डमहिम कथा यत्रोदञ्चत्यतुलबलधैर्यस्य भवतः । अयं को वा तत्र प्रसृमरफणाकोणनिहित क्षितिः शेषः श्रीमान्कमठकुलचूडामणिरपि ॥' अत्र को वा इत्यनेन वाच्यलक्ष्यव्यतिरिक्तस्यागणनीयत्वस्य शेषकमठाभ्यामप्रकृताभ्यामन्वयः प्रतीयते । इति रसगङ्गाधरे तुल्ययोगिताप्रकरणम् । अथ दीपकम्प्रकृतानामप्रकृतानां चैकसाधारणधर्मान्वयो दीपकम् । प्राग्वदेवात्राप्यौपम्यस्य गम्यत्वम् । प्रकृतार्थमुपात्तो धर्मः प्रसङ्गादप्रकृतमपि दीपयति प्रकाशयति सुन्दरीकरोतीति दीपकम् । यद्वा दीप इव दीपकम् । संज्ञायां कन् । दीपसादृश्यं च प्रकृताप्रकृतप्रकाशकत्वेन बोध्यम् । करोति नाशयति । न्यासान्वितेति । कारकतुल्ययोगितेति शेषः । विशेषस्य सामान्येन समर्थनात्तन्मिश्रत्वमिति भावः । अम्बुजमावि कमलमकरन्दरूपे । अये इति । श्रीरामवर्णनमिदम् । अत एव तयोरप्रकृतत्वम् । हे राम, यत्र स्थले तव कथा निःसरति तत्र शेषः कूर्मश्च भूधारकः को वा । न कोऽपीत्यर्थः । इत्यनेनेति । व्यज्यमानस्येति शेषः । अत एव वाच्येति ॥ इति रसगङ्गाधरमर्मप्रकाशे तुल्ययोगिताप्रकरणम् ॥ अथ दीपकं निरूपयति-अथेति । अत्राप्यौपम्यस्येति । परंतु प्रकृतमुपमेयमप्रकृतमुपमानमिति बोध्यम् । योगरूढं दीपकपदमित्याह-प्रकृतेति । प्रकाशनासंभवादाह-सुन्दरीति । नन्वेवमत्राभाव्यमत आह-यद्वेति । 'संज्ञायां कन्' इति For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy