SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः। ३२१ युक्तं सादृश्यमभेदो वा तत्रोपमारूपकादिकमेवालंकारताप्रयोजकम् । सुन्दरत्वे सत्युपस्कारकत्वमित्यसकृदावेदनात् । अन्यथा सादृश्यस्यात्र प्रत्ययात्तदादायोपमाव्यवहारस्यापत्तेरिति दिक् । एवं च 'दधीचिबलिकर्णेषु हिमहेमाचलाब्धिषु । अदातृत्वमधैर्य च दृष्टे भवति भासते ॥' इत्यादौ रशनारूपैपा यथासंख्यावष्टब्धा । 'दृष्टः सदसि चेदुग्राश्चन्द्रचन्दनचन्द्रिकाः । अथ त्वं संगरे सौम्याः शेषकालानलाब्धयः ॥' इत्यत्र च स्वरूपद्वयेन राजविषयकरतिभावभूषणतया स्थिता । __ यत्र च प्रकृतानामेवाप्रकृतानामेव वा क्रियाणामेककारकान्वयः सा कारकतुल्ययोगिता। यथा 'वसु दातुं यशो धातुं विधातुमरिमर्दनम् । त्रातुं च सकलां पृथ्वीमतीव निपुणो भवान् ॥' अत्र राज्ञः स्तावकवाक्ये प्रकृतानां क्रियाणामेकेन का साधारणेन धर्मणौपम्यम् । यथा वा 'दूरीकरोति कुमति विमलीकरोति चेतश्चिरंतनमघं चुलकीकरोति । भूतेषु किं च करुणां बहुलीकरोति सङ्गः सतां किमु न मङ्गलमातनोति ॥' इत्यस्यासकृदित्यर्थः । अन्यथा उक्तव्यवस्थानङ्गीकारे । अत्र तुल्ययोगितायाम् । प्रत्ययाद्गम्यमानत्वात् । अपिना सांकर्य सूचितम् । एवं च अस्या अतिरिक्तत्वे च । रशनारूपैषेति । दधीचिरिव बलिर्बलिरिव कर्ण इत्यादिप्रतीतेरिति भावः । यथासंख्येति । बल्यादिष्वदातृत्वं हिमालयादिध्वधैर्यमिति भावः । राजवर्णनमिदम् । दृष्ट इति । इदमपि राजवर्णनम् । हे राजन्, त्वं सभायां दृष्टश्चेच्चन्द्रादय उग्रा दृश्यन्ते । अथ त्वं रणे दृष्टश्चच्छेषादयः सौम्या दृश्यन्त इत्यर्थः । स्वरूपद्वयेनेति । शान्तोग्ररूपेणेत्यर्थः । रतीति । कविनिष्ठेत्यादि । धातुं संपादयितुम् । विधातुं कर्तुम् । चुलकी For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy