SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra यथा वा www. kobatirth.org - रसगङ्गाधरः । उदाहरणम् 'अमृतस्य चन्द्रिकाया ललितायाश्चापि कवितायाः । सुजनस्य च निर्माणं जनयति नहि कस्य संतोषम् ॥' Acharya Shri Kailassagarsuri Gyanmandir 'सुधायाश्चन्द्रिकायाश्च संजीविन्या महौषधेः । दयादृष्टेच ते राजन्विश्वसंजीवनं गुणः ॥ ' यथा वा- 'मृतस्य लिप्सा कृपणस्य दित्सा विमार्गगायाश्च रुचिः स्वकान्ते । सर्पस्य शान्तिः कुटिलस्य मैत्री विधातृसृष्टौ नहि दृष्टपूर्वा ॥' अत्राभावः साधारणो धर्मः । ३२३ कस्यचित्प्रकृतत्वे दीपकम् । अन्यथा तुल्ययोगितैव । यत्र क्रिया साधारणो धर्मस्तत्र यावतां कर्त्रादिकारकाणां संनिधानं तेषां स्वसजातीयेनान्येन सह तुल्ययोगिता, दीपकं वा ष्टथक्टथग्भवति । औपम्यस्यापि पृथगेव भासमानत्वात् । यथा 'सुजनाः परोपकारं शूराः शस्त्रं धनं कृपणाः । कुलवत्यो मन्दाक्षं प्राणात्यय एव मुञ्चन्ति || ' अत्र कर्तृकर्मणोः । एवं वक्ष्यमाणे 'लावण्येन प्रमदा - ' इत्यत्र कर्तृकरणयोः । ' दिवि सूर्य - ' इत्यत्र कर्त्रधिकरणयोः । अमुनैव न्यायेनानेकासां क्रियाणामेककारकान्वये कारकदीपकम् । यथा— 'वसु दातुं यशो धातुं विधातुमरिमर्दनम् । त्रातुं च मादृशान्राजन्नतीव निपुणो भवान् ॥' For Private And Personal Use Only कन् । अमृतस्येति । अत्र ललितत्वविशेषणोक्तेः कवितायाः प्रकृतत्वं बोध्यम् । इदं गुणस्योदाहरणम् । क्रियोदाहरणमाह - सुधाया इति । अत्र राजवर्णनेन दयादृष्टेरेव प्रकृतत्वम् । अभावोदाहरणमाह-- मृतस्येति । विमार्गेति । परपुरुषगामिन्या इत्यर्थः । अत्राह — कस्यचिदिति । प्रकरणादिनेति भावः । कर्त्रादीति । आदि
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy