SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org रसगङ्गाधरः । यथा वा क्वचिद्धेतुहेतुमद्भावेन । यथा'खलः कापट्यदोषेण दूरेणैव विसृज्यते । अपायशङ्किमिलों के र्विषेणाशीविषो यथा ॥' Acharya Shri Kailassagarsuri Gyanmandir अत्र कापट्यं विषं च विम्बप्रतिबिम्बतां गतं दूरतो विसर्जनेऽनुगामि नि हेतुः । 'रूपवत्यपि च क्रूरा कामिनी दुःखदायिनी । अन्तः काटवसंपूर्णा सुपक्केवेन्द्रवारुणी ॥' १७७ अत्र रूपवत्त्वदुःखदायित्त्वयोर्द्वयोरनुगामिनोर्मध्ये क्रौर्यकाटवे बिम्बप्रतिबिम्बभावापन्ने दुःखदायित्वेन सह हेतुहेतुमद्भावेन मिश्रिते । अपरेण तु शुद्धसामानाधिकरण्येन । एवमन्यैरपि व्यामिश्रणं बोध्यम् । प्रकारान्तरं च लक्ष्यानुसारेण सुधीभिः स्वयमुन्नेतुं शक्यम् । यथा 'यथा लतायाः स्तबकानतायाः स्तनावनम्रे नितरां समासि । तथा लता पछविनी सगर्वे शोणाधरायाः सदृशी तवापि ॥ अत्र स्तनावनम्राहं स्तबकानताया लताया उपमानमस्मीति गर्व मा विदध्याः । यतः शोणाधराया उपमेयायास्तवापि पल्लविनी लतोपमानं भवतीति वाक्यार्थे यथातथापदप्रतिपाद्या कान्तोपमानिका लतोपमेयिकोपमा निष्पादिका । अस्यां चोपमायां निरूपकतासंबन्धेनोपमानोपमेयगते द्वे उपसमसदृशशब्दाभ्यां प्रतिपादिते विम्बप्रतिबिम्बभावमापन्ने साधारणधर्मतया स्थिते । तत्र निरूपकता संबन्धेन प्रधानीभूतोपमोपमान For Private And Personal Use Only भाविशेषयोरैक्यप्रतिपत्तये वानयोर्विम्बप्रतिबिम्बभाव आवश्यक इत्याहुः केचित् । अनुगामिनि हेतुरिति । तयोर्विम्बप्रतिबिम्बभावं विना भिन्नप्रकरणकत्वेन दूरविसर्जने भेदप्रतीत्यानुगामित्वमेव न स्यादिति भावः । उपमा निष्पादिकेति । एवं च वाक्याथपस्कारिकेयमुपमेत्यर्थः । बिम्बप्रतिबिम्बभावमापन्ने इति । यद्यपि समसदृशशदाभ्यां प्रतिपादितोपमयोर्वस्तुप्रतिवस्तुभाव एव तथापि तद्विशेषणयोः शोणाधरनाविकास्तबकावनम्रलतयोबिम्बप्रतिबिम्बभाव आवश्यक इति भावः । तयोश्च बिम्बप्रतिबिम्बभावे सादृश्यानुयोगित्वमेव साधारणो धर्म इति ध्येयम् । तत्र तयोरुपमयोर्मध्ये | २३
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy