SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७६ . काव्यमाला। उपचरितो यथा'शतकोटिकठिनचित्तः सोऽहं तस्याः सुधैकमयमूर्तेः । येनाकारिषि मित्रं स विकलहृदयो विधिर्वाच्यः ॥' एषा सीतां विवासितवतः स्वात्मगता रामस्योक्तिः । अत्र काठिन्य पार्थिवो धर्मश्चित्ते उपचरितः । केवलशब्दात्मको यथा 'यत्र वसन्ति सुमनसि मनुजपशौ च शीलवन्तः सर्वत्र समाना मन्त्रिणो मुनय इव ।' अत्रोपमानोपमेयगतस्यार्थस्यैकस्याभावाच्छब्द एव धर्मः। एवमेतेषां धर्माणां व्यामिश्रणं च संभवति । यथा'श्यामलेनाङ्कितं भाले बाले केनापि लक्ष्मणा । मुखं तवान्तरासुप्तभृङ्गफुल्लाम्बुजायते ॥' अत्र भालगताङ्कप्रसुप्तभृङ्गौ बिम्बप्रतिबिम्बभावमापन्नौ क्याथै आचारेऽनुगामिन्यभेदमापद्य स्थितौ । यथा वा 'सिन्दूरारुणवपुषो देवस्य रदाङ्कुरो गणाधिपतेः । ____ संध्याशोणाम्बरगतनवेन्दुलेखायितः पातु ॥' अत्र सिन्दूरसंध्याभ्यां गणाधिपगगनाभ्यां च बिम्बप्रतिबिम्बभावमापन्नाभ्यां [धर्माभ्यां] संपादिताभेदेन विशिष्टधर्मेणाभेदेनावस्थितः क्यङर्थोऽनुगामी। न तथेति । तथा तु प्रकृते नेत्यर्थः । गणाधिपगगनाभ्यामिति । गणाधि. पगगनयोबिम्बप्रतिबिम्बभावे च बिम्बप्रतिबिम्बभावापन्नसिन्दूरसंध्याविशेषणकारुणत्व. शोणत्वे वस्तुप्रतिवस्तुभावापन्ने एव साधारणधर्म इति तयोरभेदेन विशिष्टधर्मेणेत्युक्तिरिति भावः । क्यङर्थोऽनुगामीति । यद्यपि प्रसिद्धौज्ज्वल्यशोभाविशेषादिकमादायाप्याचारोऽनुगामी कर्तुं शक्यते तथापि कवितात्पर्यविषयतास्यैवेति बोध्यम् । तादृशशो For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy