SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। कान्तागतायामुपमायां प्रतिबिम्बभूतायां गुच्छस्तनयोर्वस्तुप्रतिवस्तुभावापन्ननमननम्रीभवनविशेषणयोर्बिम्बप्रतिबिम्बभावमापन्नयोः साधारणधर्मत्वम् । एवं तेनैव संबन्धेन लतारूपोपमेयगतायां बिम्बभूतायामुपमायामधरपल्लवयोः । न च तेन सदृश इत्यादौ तन्निरूपितसादृश्याश्रयस्योपमेयस्य, तस्य सदृश इत्यादौ च तत्संबन्धिसादृश्याश्रयस्यौपमानस्य प्रतीतेः सिद्धत्वात्प्रकृते च सदृशीति शब्दान्निवेद्यमानेऽप्युपमानभावे कथं नाम लताया उपमेयतेति वाच्यम् । सदृशशब्दप्रतिपाद्यधर्मभूतोपमायामुपमानवेऽपि यथातथाशब्दवेद्योपमायां लताया उपमेयत्वे बाधकाभावात् । एवमन्येऽपि प्रकाराः। 'यथा तवाननं चन्द्रस्तथा हासोऽपि चन्द्रिका । यथा चन्द्रसमश्चन्द्रस्तथा त्वं सदृशी तव ॥ एभिभैदैः प्रागुक्तानां सधर्माणां भेदानां यथासंभवं गुणने बहुतरा भेदा भवन्ति । तथा धर्माणां वाच्यतायां वाच्यधर्मा बहुधोक्ता व्यङ्गयत्वे व्यजयधर्मा धर्मलोपे गदितैव । लक्ष्यतायां यथा'सर्प इव शान्तमूर्तिः श्वेवायं मानपरिपूर्णः ।। क्षीब इव सावधानो मर्कट इव निष्क्रियो नितराम् ॥' । इत्यत्रोपमानमहिना शान्तमूर्त्यादिशब्दैविरुद्धा धर्मा लक्ष्यन्ते । इयं चोपमा मुख्यार्थस्य क्वचित्साक्षादुपस्कारिणी क्वचिच्चोपस्कारकान्तरोपस्करणद्वारा । तत्र साक्षादुपस्कारिणी प्राग्बहुधोदीरिता । निरूपकतेति । प्रतियोगितेत्यर्थः । तेनैव संबन्धेनेति । प्रतियोगितासंबन्धेनेत्यर्थः । अधरपल्लवयोरिति। कान्तालताविशेषणयोबिम्बप्रतिबिम्बभावमापनयोः साधारणधर्म. त्वमित्यर्थः । तन्निरूपितेति । तत्प्रतियोगिकेत्यर्थः । सादृश्याश्रयस्य तत्प्रतियोगिन इत्यर्थः । सधर्माणां भेदानामिति । साधारणधर्मभेदसहितानां पूर्णालप्तादिभेदानामित्यर्थः । व्यङ्गयत्वे इति । धर्माणामित्यस्यानुषङ्गः । लक्ष्यतायामिति । धर्माणामित्यादिः । महिनेति । तेषु शान्तमतित्वादेरभावादिति भावः। धर्मा लक्ष्यन्त इति । लक्ष्यतावच्छेदकेऽपि लक्षणेति मतेनेदम् । इयं चेति । उपमेत्यर्थः । तत्र नाभौ । For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy