SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ८८ www. kobatirth.org काव्यमाला | वाक्यार्थतेति शङ्कयम् । विबोधप्रतीतौ हि सत्यां तस्मिन्ननौचित्यावगमे सत्यनुचितविबोधजनकत्वेन वारिवाहेऽसूयाया विलम्बेन प्रतीतेः परमुखनिरीक्षकत्वात् । स्यादपि तस्या अपि प्राधान्यम्, यदि वारिवाहे निष्करुणत्वादिबोधकं किंचिदपि स्यात् । नापि स्वमस्य । वारिवाहनादेन तन्नाशस्यैव प्रतिपत्तेः । अस्तु वा स्वप्नभावप्रशमेनासूयया च सहास्य संकरः 4 Acharya Shri Kailassagarsuri Gyanmandir इदं तु नादाहार्यम् — 'गाढमालिङ्गच सकलां यामिनी सह तस्थुषीम् । निद्रां विहाय स प्रातरालिलिङ्गाथ चेतनाम् ॥' विबोधस्य चेतना पदवाच्यत्वात् । यथा कश्चित्सत्यप्रतिज्ञो द्वाभ्यां नायिकाभ्यां द्वौकालावुपभोगार्थं दत्त्वा यथोचितें काल एकामुपभुज्य कालान्तरे प्रवृत्ते तां विहायापरां भुङ्क्ते तथैवायं रात्रौ निद्रां प्रातश्चेतनामिति समासोक्तेरेवेह प्रकाशनात् । " परकृतावज्ञादिनानापराधजन्यो मौनवाक्पारुष्यादिकारणीभूतश्चित्तवृत्तिविशेषोऽमर्षः । प्राग्वंत्कारणानां कार्याणां च क्रमेण विभावानुभावत्वम् । उदाहरणम्- 'वक्षोजाग्रं पाणिनामृष्य दूरे यातस्य द्रागाननाब्जं प्रियस्य । शोणाग्राभ्यां भामिनी लोचनाभ्यां जोषं जोषं जोषमेवावतस्थे ॥' इह त्याकस्मिकस्तनाग्रस्पर्शो विभावः । नयनारुण्यनिर्निमेषनिरीक्षणे हि यतः । तस्मिन्विबोधे । तस्या अप्यसूयाया अपि । स्वप्नस्य वाक्यार्थतेति शङ्कयमित्यस्यानुषङ्गः । जलाहरणकर्तृत्वेन बोधकवारिवाहशब्दस्य सत्त्वात्, अत आह— अस्तु वा स्वप्रभावेति । इदं वक्ष्यमाणम् । सकलां यामिनीमभिव्याप्य सह स्थितवत निद्रां गाढमालिङ्गयाथ च प्रातस्तां विहाय स चेतनामालिलिङ्गेत्यन्वयः । नन्वेवं विबोधभावध्वनित्वाभावेऽपि कस्येदमुदाहरणम्, अत आह— यथेत्यादि । प्राग्वद्विबोधवत् । कारणानां परकृतावज्ञादीनाम् । कार्याणां मौनादीनाम् । आमृष्य संस्पृश्य । जोषं जोषमिति । निर्निमेषं दृष्ट्वा दृष्ट्वेत्यर्थः । जोषमेव तूष्णीमेव । भामिनी कर्त्री । अत्रादिसंप्रायविभावानुभावयोः सत्त्वमित्याह - इह त्विति । इदं व निर्निमेषनिरीक्षणं सेवा For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy