SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः । ८७ नुभावा निभृतगात्रनेत्रनिमीलनं -' इत्याद्युक्तं तदन्यथासिद्धानामपि तेषामे तद्भावव्यापकत्वादिति ध्येयम् । उदाहरणम् -- 'अकरुण मृषाभाषासिन्धो विमुञ्च ममाञ्चलं तव परिचितः स्नेहः सम्यङ्मयेत्यनुभाषिणीम् । अविरलगलद्वाष्पां तन्वीं निरस्तविभूषणां इह भवतीं भद्रे निद्रे विना विनिवेदयेत् ॥' एषा प्रवासगतस्य स्वनेऽपि प्रियामेवंभाषिणीं दृष्टवतो निद्रां प्रति कस्यचिद्वक्तिः । यद्यप्येवंभूतायाः प्रियतमावस्थाया निवेदनेन निद्रे मम भवत्या महानुपकारः कृत इति वस्तु विप्रलम्भशृङ्गारश्रात्र प्रतीतिपथमवतरति, तथापि पुर: स्फूर्तिकतया स्वप्रध्वननमत्रोदाहृतं न प्रान्ते तयो - र्ध्वननं निरोद्धुमीष्टे । निद्रानाशोत्तरं जायमानो बोधो विवोधः । निद्रानाशश्च तत्पूर्तिस्वमान्त वलवच्छब्दस्पर्शादिभिर्जायत इति त एवात्र विभावाः । अक्षिमर्दनगात्रमर्दनादयोऽनुभावाः । तत्र संक्षेपेणोदाहरणम् 'नितरां हितया निद्रया मे बत यामे चरमे निवेदितायाः । सुदृशो वचनं शृणोमि यावन्मयि तावत्प्रचुकोप वारिवाहः ॥' अत्र गर्जितश्रवणं विभावः । प्रियावचनश्रवणोल्लासनाशोऽनुभावस्तून्नेयः । केचिदविद्याध्वंसजन्यमप्यमुमामनन्ति । तेषां मते 'नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत । स्थितोऽस्मि गतसंदेहः करिष्ये वचनं तवं ॥ ' इति गीतापद्यमुदाहार्यम् । न तु वारिवाहविषयाया असूयाया एवात्र दंजन्यत्वादिति । एतज्जन्यत्वाभावादित्यर्थः । स्वप्नजन्यत्वाभावादिति यावत् । अन्यथेति । निद्रयेत्यर्थः । एतदिति । स्वप्रेत्यर्थः । मृषेति । मिथ्याभाषिन् । इह प्र० वासे । प्रियतमेति । नायिकेत्यर्थः । अत्रोदाहृतमिति । अस्यापि वाच्यातिशांयित्वादेत निव्यवहारोऽपि तथा च सांकर्यमिति भावः । तत्पूतिर्निद्रापूर्तिः । वारिवाहो मेघः । अमुं विबोधम् । सिंहावलोकनन्यायेना सूयाध्वनित्वं निराचष्टे - न त्विति । For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy