SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ८६ www. kobatirth.org काव्यमाला । Acharya Shri Kailassagarsuri Gyanmandir उदाहरणम् 'हृदये कृतशैवलानुषङ्गा मुहुरङ्गानि यतस्ततः क्षिपन्ती । तदुदन्तपरे मुखे सखीनामतिदीनामियमादधाति दृष्टिम् ॥' विरहोत्र विभावः । अङ्गक्षेपादिरनुभावः । भीरोर्घोरसत्त्वदर्शनस्फूर्जथुश्रवणादिजन्मा चित्तवृत्तिविशेषस्त्रासः । अनुभावाश्चास्य रोमाञ्चकम्पस्तम्भभ्रमादयः । यदाहु: 'औत्पतिकैर्मनःक्षेपस्त्रासः कम्पादिकारकः ।' उदाहरणम् 'आलीषु केलीरभसेन बाला मुहुर्ममालापमुपालपन्ती । आरादुपाकर्ण्य गिरं मदीयां सौदामिनीयां सुषमामयासीत् ॥' अत्र' पत्या स्ववचनाकर्णनं विभावः । पलायनमनुभावः । न चात्र ल'ज्जाया व्यंङ्ग्यत्वमाशङ्कनीयम् । शैशवेनैव तस्या निरासात् । इदं वा विविक्तमुदाहरणम् ' मा कुरु कशां कराब्जे करुणावति कम्पते मम स्वान्तम् । खेलन्न जातु गोपैरम्ब विलम्बं करिष्यामि || ' एषा भगवतो लीलागोपकिशोरस्योक्तिः । निद्राविभावोत्थज्ञानं सुप्तम् । स्वप्न इति यावत् । अस्यानुभावः प्रलापादिः । नेत्रनिमीलनादयस्तु निद्राया एवानुभावा न त्वस्य । अनिदंजन्यत्वात् । यत्तु प्राचीनैः 'अस्या। भवो ज्वरादिप्रभवः । तदुदन्तेति । नायकोदन्तेत्यर्थः । मुखे इत्येकवचनेनैकवार्तेव सर्वोभिरुच्यत इति ध्वनितम् । तदलाभादैन्यं दृष्टौ । भीरोर्भयशीलस्य । सत्त्वं प्राणी ॥. स्फूर्जथुर्वज्रनिर्घोषः । औत्प्रातिकै रुत्पातसूचकैर्घोर सत्त्वदर्शनादिभिः । मनःक्षेपश्चित्तवृ त्तिविशेषः । केलीरभसेन कीडाराभस्येन । नायकोक्तिरियम् । आराद्दूरम् । ततोऽचिरंस्थायित्वेन विद्युच्छाभालाभ: । पत्या तत्कर्तृकम् । ' शब्दानुशासनमाचार्येण' इति - चत्प्रयोगः । शैशवेनैवेति । बालापुदबोध्येनेत्यर्थः । तस्या लज्जायाः । एवं च मूले कुठारान्न तदाशङ्केति भावः । ननु बालापंदं न शैशवबोधकम्, किं तु विशेषबोधकमत आह- इदं वेति । कशां ताडनरज्जुम् । वस्तुतस्तत्त्वाभावादाह - लीलेति । अनि For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy