SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६ धन्वन्तरीयनिघण्टुः- [गुडूच्यादिः वृन्ताकी। (बृहतीविशेषः) ॥२१॥ वृन्ताकी वार्तिका वृन्ता भाण्टाकी भण्टिका मता।। गुणाः-*वृन्ताकं स्वादु तीक्ष्णोष्णं कदुपाकमपित्तलम् । कफवातहरं हृद्यं दीपनं शुक्रलं लघु ॥ १०१॥ राजनिघण्टौ मूलकादिः सप्तमो वर्गःवार्ताकी कण्टवृन्ताकी कण्टालुः कण्टपत्रिका । निद्रालुर्मासलफला वृन्ताकी च महोटिका ॥ १२७ ॥ चित्रफला कण्टकिनी महती कट्फला च सा । मिश्रवर्णफला नीला फला रक्तफला तथा ॥ १२८ ॥ शाकश्रेष्ठा वृत्तफला नृपपियफलस्मृतिः। गुणाः-वार्ताकी कदुका रुच्या मधुरा पित्तनाशिनी । बलपुष्टिकरी हृद्या गुरुर्वातेषु निन्दिता ॥ १२९ ॥ (२९) गोक्षुरः । गोक्षुरः स्याद्गोक्षुरको भक्षकः स्वादुकण्डकः । गोकण्टको भक्षटकः षडङ्गः कण्टकत्रिकः ॥ १०२ ॥ अन्यच्च-गोकण्टो गोक्षुरः कण्टी पडङ्गः क्षुरकः शुरः। त्रिकण्टकः कण्टफल: श्वदंष्ट्रो व्यालदंष्ट्रकः ॥ १०३ ॥ गुणाः-श्वदंष्ट्रो बृंहणो वृष्यस्त्रिदोषशमनोऽग्निकृत् । शूलहृद्रोगकृच्छ्रनः प्रमेहविनिवर्तकः ॥ १०४ ॥ अन्यच्च-गोक्षुरो मूत्रकृच्छ्रनो वृष्यः स्वादुः समीरजित् । शूलहृद्रोगशमनो बृंहणो मेहनाशनः ॥ १०५॥ ___राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्ग: स्याद्गोक्षुरो गोक्षुरकः क्षुराङ्गः श्वदंष्ट्रकः कण्टकभद्रकण्टको । स्याद्यालदंशः क्षुरको महाङ्गो दुश्चक्रमश्च क्रमशो दशावः ॥ १३० ॥ क्षुद्रोऽपरो गोक्षुरकस्त्रिकण्टकः कण्टी षड्ङ्गो बहुकण्टकः क्षुरः। गोकण्टकः कण्टफलः पलंकषा क्षुद्रक्षुरो भक्षटकश्चणद्रुमः ॥ १३१ ॥ स्थलशृङ्गाटकश्चैव वनशृङ्गाटकस्तथा । इक्षुगन्धः स्वादुकण्टः पर्यायाः षोडश स्मृताः ॥ १३२ ॥ गुणाः स्यातामुभी गोक्षुरको सुशीतलौ बलप्रदौ तौ मधुरौ च बृंहणौ । कृच्छ्राश्मरीमेहविदाहनाशनौ रसायनौ तत्र बृहद्गुणः परः ॥ १३३ ॥ (३०) बिल्वः । (चित्रा) बिल्वः शलाटुः शाण्डिल्यो हृयगन्धो महाफलः । शैलूषः श्रीफलश्चाहः *क पुस्तके-लवणमरिचचूर्णेनाऽऽवृतं रामठाढ्यं दहनवदनपक्कं जम्बुकान्तं निकान्तम् । हरति पवनदोषं श्लेष्महन्त प्रसिद्धं जठरभरणभव्यं चारुभोज्यं भरित्यम् ॥ For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy