SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ प्रथमो वर्गः] राजनिघण्टुसहितः। कर्कटः पूतिमारुतः ।। १०६ ॥ लक्ष्मीफलो गन्धगर्भः सत्यकर्मा वरारुहः । वातसारोऽरिमेदश्च कण्टको ह्यसिताननः ॥ १०७॥ गुणाः-बिल्वमूलं त्रिदोषघ्नं छर्दिघ्नं मधुरं लघु । बिल्वस्य च फलं चाम्लं स्निग्धं संग्राहि दीपनम् ।। १०८ ॥ कटुतिक्तकषायोष्णं तीक्ष्णं वातकफापहम् । विद्यात्तदेवं पकं तु मधुरानुरसं गुरु ॥ १०९ ॥ विदाहि विष्टम्भकरं दोपहृत्पूतिमारुतम् । ___ राजनिघण्टावाम्रादिरेकादशो वर्गः बिल्वः शल्यो हृद्यगन्धः शलाटुः शाण्डिल्यः स्याच्छ्रीफलः कर्कटाहः । शैलूपः स्याच्छैवपत्रः शिवेष्टः पत्रश्रेष्ठो गन्धपत्रस्त्रिपत्रः ॥ १३४ ॥ लक्ष्मीफलो गन्धफलो दुरारुहस्त्रिशाकपत्रस्त्रिशिखः शिवद्रुमः । सदाफलः सत्फलदः सुभूतिकः समीरसारः शिखिनेत्रसंज्ञितः ॥ १३५ ॥ गुणाः-बिल्वस्तु मधुरो हृद्यः कषायः पित्तजिद्गुरुः । कफज्वरातिसारनो रुचिकृद्दीपनः परः ॥ १३६ ॥ विल्वमूलं त्रिदोषघ्नं मधुरं लघु वातनुत् । फलं तु कोमलं स्निग्धं गुरु संग्राहि दीपनम् ॥ १३७ ॥ तदेव पकं विज्ञेयं मधुरं सरसं गुरु । कटुतिक्तकषायोष्णं संग्राहि च त्रिदोषजित् ॥ १३८ ॥ (३१) अग्निमन्थः । अग्निमन्थोऽग्निमथनस्तारी विजयन्तिका । वह्निमन्थोऽरणी केतुः श्रीपर्णी कर्णिका जया ॥ ११० ॥ नादेयी वह्निमथनो द्वितीयश्चाग्निमन्थनः । रक्ताङ्गो मन्थनश्चैव सं चैवारणिको मतः ॥ १११ ॥ क्षुद्राग्निमन्थस्त्वपरः पूर्वनामनियोजितः । क्षुद्राग्निमन्थ इत्यादिनामानि परिचक्षते ॥ ११२ ॥ गुणाः-तर्कारी कटुका तिक्ता तथोष्णानिलपाण्डुजित् । शोफश्लेष्मानिमान्यामविबन्धांश्च विनाशयेत् ॥ ११३ ॥ राजनिघण्टौ प्रभद्रादिर्नवमो वर्गःअग्निमन्थोऽग्निमथनस्तर्कारी वैजयन्तिका । वह्निमन्थोऽरणी केतुः श्रीपर्णी कर्णिका जया ॥ १३६ ॥ नादेयी विजयाऽनन्ता नदी यावत्रयोदश ॥ गुणाः-तर्कारी कटुरुष्णा च तिक्ताऽनिलकफापहा । शोफश्लेष्मानिमान्द्याहॊविड्बन्धाध्माननाशनी ॥ १३७ ॥ राजनिघण्टौ प्रभद्रादिर्नवमो वर्गः १ क. च. 'र्मा सुदारु । २ क. च. ण्टकाट्योऽसि' । ३ क. ख. च. व संपकं म । ४ ख. पद्धन्ति मा। ङ. च. पकृत्यू । ५ क. स वै वारुणिकोत्तमः । क्षु। ६ इ. च. छ. तः। द्वितीयः क्षु। For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy