SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९४ धन्वन्तरीयनिघण्टुः [ आम्रादिःगुणाः-वरुणः कदुरुष्णश्च रक्तदोषहरः परः । शीर्षवातहरः स्निग्धो दीप्यो विद्रधिवातजित् ॥ १९७ ॥ (४०) शिंशपा। शिंशपा तु महाश्यामा कृष्णसारा स्मृता गुरुः । कुशिंशपाऽन्या कपिला भस्मगी वसादनी ॥ १२१॥ गुणाः--कट्रष्णं कण्डुदोषघ्नं बस्तिरोगविनाशनम् । शिंशपायुगुलं वयं हिकाशोफो विसर्जयेत् ॥ १२२ ॥ पित्तदाहप्रशमनं बल्यं रुचिकरं परम् ॥ राजनिघण्टौ प्रभद्रादिर्नवमो वर्गःशिंशपा तु महाश्यामा कृष्णसारा च धूम्रिका । तीक्ष्णसारा च धीरा च कपिला कृष्णशिंशपा ॥ १९८ ॥ गुणाः-श्यामादिशिंशपा तिक्ता कटूष्णा कफवातनुत् । नष्टाजीर्णहरा दीप्या शोफातीसारहारिणी ॥ १९९ ॥ शिंशपाऽन्या श्वेतपत्रा सिताहादिश्च शिंशपा । श्वेतादिशिंशपा तिक्ता शिशिरा पित्तदाहनुत् ॥ २०० ॥ कपिला शिंशपा चान्या पीता कपिलशिंशपा । सारिणी कपिलादी च भस्मगर्भा कुशिंशपा ॥ २०१॥ गुणाः--कपिला शिंशपा तिक्ता शीतवीर्या श्रमापहा । वातपित्तज्वरनी च च्छर्दिहिकाविनाशिनी ॥ २०२ ॥ साधारणशिंशपात्रयगुणाः-शिंशपात्रितयं वर्ण्य हिमशोफविसर्पजित् । पित्तदाहप्रशमनं बल्यं रुचिकरं परम् ॥ २०३ ॥ (४१) सर्जकः ( सर्जः) सर्जको वस्तकर्णश्च कपायश्चिरपत्रकः । सस्यसंवरकः शूरः सर्नोऽन्यः शाल उच्यते ॥ १२३ ॥ गुणाः-कुष्ठकण्डूकृमिश्लेप्मवातपित्तरुजा जयेत् । स युग्मं कषायं स्याद्वये रूक्षं कफापहम् ॥ १२४ ॥ राजनिघण्टौ प्रभद्रादिर्नवमो वर्गःसर्जः सर्जरसः शालः कालकूटो रजोद्भवः । वल्लीवृक्षश्चीरपर्णो रालः कार्योऽजकर्णकः ॥ २०४ ॥ बस्तकर्णः कषायी च ललनो गन्धवृक्षकः । वंशश्च शालनिर्यासो दिव्यसारः सुरेष्टकः ॥ २०५ ॥ शूरोऽग्निवल्लभश्चैव यक्षधूपः सुसिद्धकः। १ ग. र्भा च सा । २ ख. 'षायो वीर। ३ ट. 'पः ससि । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy