SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५ पञ्चमो वर्गः] राजनिघण्टुसहितः। १९५ गुणाः-सर्जस्तु कटुतिक्तोष्णो हिमः स्निग्धोऽतिसारजित् । पित्तास्रदोषकुष्ठनः कण्डूविस्फोटवातजित् ॥ २०६ ॥ अशनः (सर्जकविशेषः ) ॥ १९ ॥ अशनस्तु महासर्जः सौरिबन्धूकपुष्पकः । प्रियको बीजकः श्यामः सुनीलः प्रियशालकः ॥ १२५ ॥ गुणाः-बीजकः सकषायश्च कफपित्तास्रनाशनः । राजनिघण्टौ प्रभद्रादिर्नवमो वर्ग:असनस्तु महासर्जः सौरिबन्धूकपुष्पकः । प्रियको बीजक्षश्च नीलकः प्रियशालकः ॥ २०७॥ गुणा:-असनः कटुरुष्णश्च तिक्तो वातातिदोषनुत् । नारको गलदोषघ्नो रक्तमण्डलनाशनः ॥ २०८ ॥ राजनिघण्टौ प्रभद्रादिर्नवमो वर्गः नीलबीजः (सर्जकविशेषः ) ॥ २० ॥ द्वितीयो नीलबीजः स्यान्नीलपत्रः सुनीलकः । नीलद्रुमो नीलसारो नीलनिर्यासको रसैः ॥ २०९ ॥ ___गुणाः-बीजवृक्षौ कटू शीतौ कषायो कुष्टनाशनौ । सारको कण्डदद्रुघ्नौ श्रेष्ठस्तत्रासितस्तयोः ॥ २१० ॥ (४२) शाल्मली (शाल्मलः, ज्येष्ठा) शाल्मली वेष्टकः पिच्छा निर्यासः स च शाल्मलः । मोचत्रावो मोचरसो मोचनिर्यासकस्तथा ॥ १२६ ॥ शाल्मली रक्तपुष्पा तु कुक्कुटी चिरजीविका । पिच्छिला चूलिनी मोचा कण्टकाढ्या सुपूरणी ॥ १२७ ॥ ___ गुणाः-शाल्मली शीतला स्निग्धा शुक्र श्लेष्मविवर्धनी । तद्रसस्तद्गुणो ग्राही स च मोचरसः स्मृतः ॥ १२६ ॥ शाल्मली पिच्छला वृष्या बल्या मधुरसा तथा । कषायस्तद्रसो ग्राही पुष्पं तद्वत्तथा फलम् ॥ १२९ ॥ राजनिघण्टौ शाल्मल्यादिरष्टमो वर्गः-- शाल्मलिचिरजीवी स्यापिच्छलो रक्तपुष्पकः । कुक्कुटी तूलवृक्षश्च मोचाख्यः कण्टकद्रुमः ॥२११ ॥ रक्तफलो रम्यपुष्पो बहुवीर्यो यमद्रुमः । दीर्घद्रुमः स्थलफलो दीर्घायुस्तिथिभिर्मितः ॥ २१२॥ गुणाः--शाल्मलिः पिच्छिलो वृष्यो बल्यो मधुरशीतलः । कषायश्च लघुः For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy